SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८७४ चरक-संहिता। कतिधापुरुषीयं शारीरम् एतद् दूपयति। एतच्चायुक्तं शरीरादय उपभोगार्थास्ते भोगप्रतिबन्धं करिष्यन्तीत्यनुपपन्नं, न चास्त्यनुमानमशरीरस्यात्मनो भोगः कश्चिदस्तीति। व्याख्यायते चेदं भाष्यम् । ये तु भोगार्थास्ते पुनभोगपतिबन्धका इति वचनम् अनुपपन्नमित्यतः शरीरादिसम्बन्धो नित्यमुखसंवेदनहेतोः प्रतिबन्धक एतच्च वचनमयुक्तम् । कस्मात ? “यतो न चास्तीत्यादि।” यतोऽशरीरस्य शरीरादिसंयोगशून्यस्यात्मनोऽनुमानं नास्ति तस्य कश्चिद्भोगोऽस्तीति च नानुमानं स्यादिति। अत्राशङ्का आह–इष्टाधिगमार्था प्रवृत्तिरिति चेन्न, अनिष्टोपरमार्थखात् । भाष्यञ्चेदं व्याख्यायते। इच्छाविषयीकृतस्य सुखस्यार्थ लोकः प्रवत्तेते न खनिष्टाधिगमार्थम्, इष्टं हि सुखं यत् पुनने नश्यति तस्मान्नित्यसुखार्थ मोक्षसाधनोपायान् कुरुते इति चेन्न। कस्मात् ? अनिष्टोपरमार्थखात्। अनिष्टोपरमार्था हि प्रत्तिरनिष्टं दुःखं मोक्षे तदुपरमः स्यादित्यर्थः। मोक्षे नित्य मुखाभिव्यक्तिवादी भाषते। इदमनुमानमिष्टाधिगमाथो मोक्षोपदेशः प्रवृत्तिश्च मुमुक्षणां नोभयमनर्थकमिति । व्याख्यायते चेदं भाष्यम्। इदमनुमीयते। मोक्षोपदेश आचार्य यत् क्रियते स मोक्षोपदेश इष्टवस्खधिगमार्थ एव न बनिष्टनित्तिमात्रार्थः। इष्टभिन्नम् अनिष्टमिष्टश्च सुखं प्रह्लादकरखादनिष्टं दुःखं प्रह्लादहरत्वात् । तद्दुःखात्यन्तनिवृत्तिमन्तरेण केवलं सुखं न भवति सुखाभावे दुःखोदयो दुःखाभावे सखोदय इति प्रतिनियमादनिष्टोपरमे खिष्टाधिगम एव भवति तस्मादिष्टाधिगमाथेश्च मुमुक्षूणां योगादिप प्रवृत्तिरित्यतो मोक्षोपदेशः प्रवृत्तिश्चेत्युभयं न निरर्थक मिति तकौ युक्त्यपेक्षस्तदनुमानमिति । एतदपि वादी दूपयति । एतच्चायुक्तमनिष्टोपरमार्थो मोक्षोपदेशः प्रत्तिश्च मुमुक्षूणामिति। एतत् पूर्वोक्तमिष्टाधिगमाथी मोक्षोपदेशः प्रवृत्तिश्च मुमुक्षणामिति यदनुमानं तदयुक्तम्। कस्मात् ? यतः अनिष्टोपरमार्थी मोक्षोपदेशः प्रवृत्तिश्च मुमुक्षणामित्यनुमानम् नानर्थकमुभयम् । इष्टभिन्नमनिष्टमिष्टं सखम् अनिष्टं दुःखं तदुपरमे नियमतो नित्यमुखं स्यादिति न यौक्तिकम्। कथम् इत्यत आह-नेष्टमनिष्टेनाननुविद्धं सम्भवतीतीष्टमप्यनिष्टं सम्पद्यते। अनिष्टहानाय घटमान इष्टमपि जहात्यविवेकहानस्याशक्यखादिति । व्याख्यायते चेदं भाष्यम् । इष्टं सुखं मुखजनकञ्च यद् यत् तत् सर्वमनिप्टेन दुःखेन दुःख जनकेन बा भावेनाननुविद्धमनुविद्धभिन्न न सम्भवति सर्वम् इष्टमनिष्टेनानुविद्धमेव भवति, इत्यत इष्टमप्यनिष्टं भवति । दृश्यते च। अनिष्टहानाय दुःखदुःखजनकभावत्यागाय यद घटते तत्र बुद्धिमानिष्टमपि जहाति । यथाश्वमेधादि For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy