SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः शारीरस्थानम् । १८७३ नास्ति तेन उपरमासद्भावेन संवेदनस्य हे तुरुन्पत्तिधम्मकोऽपि धर्मो नित्य इत्यतो योगसमाधिनध द्विपर्ययवर्ममनुमेयं संवेदनात् तत्कार्यात् । इति । तत्राह वादी। नित्ये च मुक्तसंसारस्थयोरविशेष इत्युक्तम्। यथा मुक्तस्य नित्यं सुखं तत्संवेदनहेतुश्च। संवेदनस्य तूपरमो नास्ति कारणस्य नित्यखात्, तथा संसारस्थस्यापीति। व्याख्यायते चेदम् । नित्ये चेति । यस्योत्पत्तिधर्मकस्य सुखस्य संवेदनोपरमो नास्ति तेनोपरमाभावेन तस्य सुखस्य संवेदनहेतो नित्ये सति मुक्तसंसारस्थयोरविशेष इति यत् पूर्वमुक्तं तदेव भवतीति भावः । कथमिति चेत् तदोच्यते-यथेत्यादि। यथा मुक्तस्य नित्यं सुखं तन्नित्यसुखसंवेदनहेतुश्च नित्यस्तस्य हि संवेदनस्योपरमो नास्ति तत्कारणस्य योगसमाधिजयनेस्य नित्यखात्। तथा संसारस्थस्याप्यात्मनः सुखं नित्यं तत्स्थं धर्मजञ्च सुखमनित्यमपि तस्य संवेदनोपरमाभावेन तत्संवेदनहेतोरुत्पत्तिधर्मकस्यापि धर्मस्य नित्यखमिति मुक्तसंसारस्थयोः अविशेष इत्युक्तम् । एवं सति यत् फलितं तदाह-एवं सति धर्माधर्मफलेन सुखदुःखसंवेदनेन साहचय्यं गृहातेति। व्याख्यायते चेदं भाष्यम् । एवंप्रकारेण मुक्तसंसारस्थयोरविशेषे सति धमाधम्र्मफलेन सुखदुःखेन तत्संवेदनेन च नित्यस खस्य साहचर्य योगपदं गृहातेति पूर्वमुक्तं भवति सम्पन्नम्। अत्राशङ्का दोषमाह-शरीरादिसम्बन्धः प्रतिबन्धहेतुरिति चेन्न, शरीरादीनामुपभोगार्थखाद विपय्ययस्य चाननुमानात्। व्याख्यायते चेदं भाष्यम्। संसारस्थस्य धमाधम्म फलेन सुखदुःखेन तत्संवेदनेन च नित्यसुखसंवेदनस्य साहचव्य योगपद्यग्रहणे शरीरादिसम्बन्धः शरीरेन्द्रियमनोऽहकारमहत्तत्त्वसम्बन्धः प्रतिबन्धक इति चेन। कस्मात् ? शरीरादोनाम् आत्मन उपभोगार्थखात्। आत्मनो हुापभोगार्थाः शरीरादय आत्मना हि धर्माधर्मफलं सुख दुःखमुपभुज्यते शरीरादिभिविपर्ययस्य च धर्माधर्माभ्यासजन्यस्य नित्यमुखस्य चोपभोगः क्रियते तस्य खननुमानादनुमानाभावात्। अत्र नित्यसुखाभिव्यक्तिवादी खाह। स्यादेतत् संसारस्थस्य शरीरादिसम्बन्धो नित्यसुखसंवेदनहेनोः प्रतिवन्धकस्तेनाविशेषो नास्तीति । व्याख्यायते चेदम् । “एतत् स्यात्।” किं स्यादित्यत आह-संसारस्थस्य आत्मनः शरीरादिसम्बन्धो नित्यसुखसंवेदनहेतोयोगसमाधिजधर्मस्य प्रतिबन्धकस्तेन मुक्तसंसारस्थयोरविशेपो नास्ति, योगसमाधिस्तु सशरीरस्यैव भवति तज्जधर्मास्तु नित्यसुखस वेदनस्य हेतुः शरीरादिसम्बन्धाभावे उत्पद्यते इति । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy