________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८७२
चरक-संहिता। ( कतिधापुरुषीयं शारीरम् संवेदननिवृत्तिः। इति । भाष्यञ्च व्याख्यायते । मोक्षे नित्य सुखसंवेदनोत्पत्ती खल्वात्ममनःसंयोगस्य हेतुले यदि सहकारिनिमित्तान्तरं धम्मौ भवता वाच्यः तदा तस्य धम्मस्य हेतुर्वाच्यो भवता यतो धर्म उत्पद्यते इति । वैधं कम वाच्यं तत् कम्मे योगसमाधिरूपं तज्जस्य धम्मस्य कार्यावसायविरोधात् । मोक्ष कार्याणां सर्वेपामवसानं भवति तस्य तदा विरोधात् प्रक्षये धर्मस्य कार्यस्य क्षय तधर्मजन्यस्य नित्यमुखसंवेदनस्यापि निवृत्तिः स्यादिति । ___ अत्र यत् सुखवन्नित्यवादी भापते, तदाह-यदि योगसमाधिजो धम्मो हेतुस्तस्य कार्य्यावसायविरोशत् प्रक्षये संवेदनमत्यन्तं निवर्ततेति संवेदने चाविद्यमाने नाविशेषः। इति । भाप्यञ्च व्याख्यायते। मोक्षे नित्यमुखसंवेदनोतपत्तौ योगसमाधिजो धर्मो हेनुस्तस्य योगसमाधिजस्य धर्मस्य मोक्ष सवेकार्यावसायविरोधात् प्रक्षये तत् संवेदनं यद्यत्यन्तं निवर्ततेति तदा संवेदने. चाविद्यमाने मोक्षे सुखवन्नित्यस्वरूपः स्यात् संसारस्थस्तु धमाधम्र्मफलसुखदुःखसंवेदीत्यतो मुक्तसंसारस्थयो विशेषस्तुल्यवं भवतीति । अत्राह वादीयदि धर्मक्षयात् संवेदनोपरमः, नित्यं सुखं न संविद्यते इति किं विद्यमानं न संविद्यतेऽथाविद्यमानमिति ? नानुमानं विशिष्टेऽस्तीति। व्याख्यायते चेदम्। मोक्षे योगसमाधिजधर्मक्षयात् संवेदनोपरमे सति यदि नित्यं सुखं न संविद्यते संवेदनाभावान्न ज्ञायते इति तर्हि तन्नित्यं सुखं विद्यमानं किं न संविद्यतेऽथवा तन्नित्यसुखमविद्यमानं न संविद्यते इति खनुमानं विशिष्टे मोक्षे सुखवन्नित्यस्वरूपे लिङ्गाभावान्नास्तीति । ___ अत्राह प्रतिवादी। अप्रक्षयश्च धर्मस्य निरनुमानः, उत्पत्तिधर्मकखाद् योगसमाधिजो धम्मो न क्षीयते इति नास्त्यनुमानम् । उत्पत्तिधर्मकम् अनित्यमिति विपर्ययस्य खनुमानम्। इदश्च भाष्यं व्याख्यायते। धर्मास्य अप्रक्षयो न प्रक्षयोऽस्ति तस्मान्निरनुमान इति सूत्रं, तस्य विवरणमाहउत्पत्तिधर्मकखाद्धेतोर्न योगसमाधिजो धम्मः क्षीयत इत्यतो मोक्षे सुखवन्नित्यस्वरूपे नित्यसुखस्य नारत्यनुमानं लिङ्गाभावात् । कथमुत्पत्तिधम्मको योगसमाधिजो धम्मो नक्षीयते इत्यत आह- उत्पत्तिधर्मकं सव्वमनित्यमिति। योगसमाधिजधर्माद्विपर्ययस्य धर्मस्य खनुमानं नश्वरत्वञ्च, योगसमाधिजो धम्म उत्पत्तिधर्मकखेऽपि नित्य इति बोध्यम् । कथमनुमानं स्याद्विपर्ययस्येत्यत आह-यस्य तु संवेदनोपरमो नास्ति तेन संवेदनहेतुर्नित्य इत्यनुमेयम्। इदश्च भाष्यं व्याख्यायते। यस्योत्पत्तिधर्मकस्य सुखस्य संवेदनोपरमो
For Private and Personal Use Only