________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मध्यायः] शारीरस्थानम् ।
१८६६ भूताया गायत्रयाः पृथग्रूपेण दृष्टखादतिरिक्तम्। यथाग्निस्तु रूपादिशक्तिमान् । तस्या रूपादिशक्तेरालोकादिकृत्प्रभादिरग्नेरपृथगेव दृश्यते न तु पृथगिति । ननु स्वेन रूपेणेति किं स्वीयेन ब्रह्मणा ज्योतिषाऽथवास्वेनात्मनेत्यत आहब्राह्मणजैमिनिरुपन्यासादिभ्यः। ब्रह्मण इदमादेशभूतं रूपं तेन ब्रह्मण आदेशभूतेन परमव्योमरूपेण शिवेन क्षेत्रज्ञस्य स्वेनात्मना रूपेणेति जैमिनिराह । कुतः ? उपन्यासादिभ्यः। उपन्यासादयो हि च्छान्दोग्ये कृताः। स उत्तमः पुरुषः स तत्र पर्येति जक्षन क्रीड़न रममाणः स्त्रीभिर्वा यौनैर्वा शातिभिवो वयस्यैर्वा नोपजनं स्मरन्निदं शरीरं स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे प्राणे युक्तः। अथ यत्रैतदाकाशमनुविसरणं चक्षुः। स चाक्षुषः पुरुषो दर्शनाय चक्षुः। अथ यो वै हेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम् । अथ यो वै हेदमभिव्याहराणीति स आत्माऽभिव्याहाराय बाक। अथ यो वै हेदं शृणवानीति स आत्मा श्रवणाय श्रोत्रम् । अथ यो वै हेदं मनवानीति स आत्मा मनोमननाय। मनोऽस्य दैवं चक्षुः। स वा एष एतेन दैवेन चक्षुषा मनसैतान् कामान पश्यन् मनुते यत्र ते ब्रह्मलोके तं वा एतं देवा आत्मानमुपासते । तस्मात् तेषां सर्वे च लोका आत्ताः सर्वे कामाः स सर्वांश्च कामानामोति सव्वांश्च कामान् । यस्तमात्मानमनुवेद्य विज्ञानातीति होवाच प्रजापतिरित्युपन्यासः। आदिना। स एवाधस्तात् स उपरिष्टादित्यादिसव्वैगतखादिरूपोपदेशः। मुण्डके च। यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः। तस्मादेतद् ब्रह्म नाम रूपमन्नश्च जायत इति व्यपदेशश्च । इति कत्तरूोण शिवस्यैवोपन्यासादिभ्य इति बोध्यम् । उभयमतेऽप्यविरोधं दर्शयति एवमप्युपन्यासात् पूर्वभावादविरोधं वादरायणः। एवमौडुलोमिनोक्तप्रकारेण जैमिनिनोक्तादुपन्यासादिहेतोः पूर्वभावात्। चित्सम्प्रसादस्य क्षेत्रज्ञस्य पूर्वभावश्चेतनाविशिष्टः परमव्योमेव परमात्मा हेतुस्तस्मात् तत् पूर्वपरमव्योमस्वरूपेणाभिनिष्पत्तेरुभयमतेऽप्यविरोधमाह वादरायण ऋषिः । एषां मतावलम्बी वात्स्यायन उवाच। नित्यं सुखमात्मनो मोक्षेऽभिव्यज्यते । तेनाभिव्यक्तेनात्यन्तं युक्तः सुखी भवतीत्येके मन्यन्त इति। व्याख्यायते चेदम् । सम्प्रसादः क्षेत्र आत्मा पुरुष इत्येकोऽर्थः। एप समत्रिगुणातस्तु अव्यक्ताख्यः स महता जीवेनोपाहितः प्राज्ञः स जीवः। स य एप सम्प्रसादः कारणतोऽस्माच्छरीरात समुत्थाय परं ज्योतिदिव्यज्योतिरूपसम्पद्य यदा स्वेन रूपेणाभिनिष्पद्यते तदा नित्यं सुखमभिव्यज्यते। तेनाभिव्यक्तेन नित्येन
For Private and Personal Use Only