________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८७०
चरक-संहिता। कतिधापुरुषीर्य शारीरम् सुखन युक्तः स मुक्तः सुखी भवतीत्ये के मन्यन्ते। लोके हि यत् सुखमभिः व्यज्यते तत् सुखं न नित्यम् । तेषां प्राणाभावादनुपपत्तिने प्रत्यक्षं नानुमानं नागमो वा विद्यते। नित्यं सुखमात्मनो महत्त्ववन्मोक्षेऽभिव्यज्यत इति । ___ व्याख्यायते चेदं भाष्यम्। नित्यं सुखमात्मनः क्षेत्रशस्य मोक्षे सत्यभि. व्यज्यते इति तेनाभिव्यक्तेन नित्यमुखेन युक्तोऽत्यन्तं सुखी भवतीति ये केचिदाहुस्तेषां तन्नित्यसुखाभिव्यक्ती प्रमाणाभावादनुपपत्तिः। प्रमाणं हि तत्र प्रत्यक्षं नास्ति न चानुमानमर्थापत्तिः सम्भवोभावो वास्ति। नाप्यागम आप्तोपदेश ऐतिह्यञ्चास्ति। नित्यं सुखमात्मनो महत्त्ववन्मोक्षेऽभिव्यज्यते इति यदुच्यते, तत्रापि नित्यस्याव्यिक्तिः संवेदनं तस्य हेतुवचनम्। अस्य च भाप्यं स्वयमाह-नित्यग्याभिव्यक्तिः सवेदनं ज्ञानमिति। तस्य हेतुर्वाच्यः यतस्तदुत्पद्यत इति । इदञ्च व्याख्यायते। मोक्षे क्षेत्रशस्यात्मनोऽणुपरिमाणस्य शिवरूपेणाभिनिष्पत्ती महत्त्वपरिमाणं यथा व्यज्यते तथा तस्य यन्नित्यं सुखमभिव्यज्यत इत्युक्तं तन्नित्यस्य सुखस्योत्पत्त्यभावादभिव्यक्तिः संवेदनं ज्ञानं भवतीत्यर्थश्चेत् तदा तस्य शनस्योत्पत्ती हेतुर्वाच्य इति जन्यज्ञानापत्तिस्तदा तस्य शिवरूपेणाभिनिष्पत्ताविति दोषस्तत्र । सुखवन्नित्यमिति चेत् संसारस्थरय मुक्तेन विशेषः। यथा मुक्तः सुखेन तत् संवेदनेन च सन् नित्यनोपपन्नस्तथा संसारस्थोऽपि प्रसज्यते इत्युभयस्य नित्यखात् इति । भाष्यञ्च व्याख्यायते। मोक्षे सुखयुक्तनित्यपरमपुरुषरूपेणाभिनिष्पद्यते इति परमपुरुषस्य नित्यखेन सुखस्यापि नित्यत्वं तस्य ज्ञानस्यापि नित्यसमिति चेत् तदा संसारस्थरय रत्तन पुरुपेण सह विशेषो नास्ति। यथा मुक्तः सन् नित्येन सुखेन नित्यन च तत्सुखसंवेदननोपपन्नः स्यात् तथा संसारस्थोऽपि पुरुषो नित्य सुखनित्यसंवेदनोपपन्नः प्रसज्यते। कस्मात् ? उभयस्य नित्यखात्। सवस्येव पुर पस्य संसारस्थस्यात्मा बद्धोऽपि नित्य एव तस्य मुखं नित्यं तत्संवेदनञ्च नित्यं यावन्महाप्रलयं वत्तेते इति भावः। तदिष्टापत्तौ दोपमाह-अयनुज्ञानं च धम्मधिर्म फलेन साहचर्य योगपदं गृहात । यदिदमुत्पत्तिस्थानेषु धमाधम्र्म फलं सुखं दुःखं वा संविद्यते पर्यायण इति । भाष्यञ्च व्याख्यायते। अभ्यनुज्ञान मुक्तसंसारस्थयोस्तुल्यतस्वीकारे। धर्माधम्म फलेन संसारस्थस्य सुख दुःखेन स्वीयनित्य सुखस्य साहचर्य योगपदा गृहेत। नित्य सुखस्यात.स्थरय धमाधम् प.लसुखदुःखयोः साहचर्य योगपद्यञ्च भवतु । न चात्मस्थ नित्य खेन ६माधर्मफलरुखदुःखयोः साह
For Private and Personal Use Only