________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६८
चरक-संहिता। कतिधापुरुषीयं शारीरम् दक्षणोक्त इन्द्रः। सहापराणि पञ्च वर्षाव्युवास। तान्येकशतं सम्पैदुरेतत् । तद् यदाहुरेकशतं ह वै वर्षाणि मघवान् प्रजापतौ ब्रह्मचय्यमुवास। तस्मै होवाच। मघवन् मर्त्य वा इदं शरीरमात्तं मृत्युना। तदस्यामृतस्याशरीरस्य आत्मनोऽधिष्ठानम् आत्तो वै सशरीरः प्रियाप्रियाभ्याम् । न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिः अशरीरं वाव सन्तं न प्रियाप्रियो स्पृशतः। अशरीरं वायुरभ्र विदुरत् स्तनयिन । अशरीराण्येतानि । तद् यथैतान्यमुष्मादाकाशात् समुत्थाय परं ज्योतिरुप सम्पद्य स्वेन रूपेणाभिनिष्पद्यन्ते। एवमेवैष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः, स तत्र पर्यतीति, स उत्तमः पुरुषः परव्योम शिवः परमात्मा केवलस्तत्र तत्स्वरूपेण सम्प्रसादः पर्येति परिवर्तत इति । तत्र चिति तन्मात्रवेन तदात्मकखात् इत्यौडुलोमिः। चिति चिन्मात्रेऽर्थे पय्यवसीयमानः सम्प्रसादः स्वेन रूपेण चिन्मात्ररूपेणाभिनिष्पद्यते । कस्मात् ? तदात्मकखात्। चेतनाविशिष्टश्चित् परमव्योमरूपः परमात्मा सम्प्रसादोऽपि स एष स्थूलचित्सम्प्रसादांशोपाहितस्ततस्तदात्मक इत्यौडुलोमिरुवाच। आत्मा प्रकरणात्। वेनेतिपदैनात्मा परः पुरुषः परव्योमैवाभिधीयते । ऐन्द्रवैरोचनिक विद्यायामात्मन एवाधिकारः। कस्मात् प्रकरणात् ? मुक्तिप्रकरणात्। लोकानामात्मा हि बद्धस्तस्य मुक्तिः प्रकरणात् ।
ननु चित्सम्प्रसादरूपः क्षेत्रशो लोकानामात्मा प्रधानादितत्त्ववद्धरूप एवास्माच्छरीरात समुत्थाय परं ज्योतिरूपसम्पद्य स्वेन निबन्धचितसम्प्रसाद. रूपेणाभिनिष्पद्यत इत्येवं कथं नोच्यत इति चेन्न स तत्र पर्यतीत्युक्तेः । पायो हि परिवर्तनं रूपस्येति । शिवरूपेणाभिर्भावाचितसम्प्रसादरूपपरिवर्तनमिति । ननु कथं रखेनेतिपदेन लोकानामात्मनः क्षेत्रज्ञस्यात्मा विज्ञायते शिवः परं ज्योतिस्तु ततोऽतिरिक्तं श्रयते। तद यथा। अथ यदतः परो दिव्यो ज्योतिः। दीप्यतेऽपि स्वतः पृष्ठेष सर्वतः पृष्ठे विति। तथा । एतावानस्य महिमा ततो ज्यायांश्च पूरुषः। पादोऽस्य सा भूतानि त्रिपादस्यामृतं दिवीत्यत आह-अविभागेन दृष्टवात्। स्वेनेति स्वपदेन तज्ज्योतिषैकीभावापन्नो लोकानामात्मनश्चित्सम्प्रसादस्य क्षेत्रज्ञस्य विष्णोरात्मा शिव उत्तमपुरुषः। क्षेत्रज्ञस्य तस्य बद्धस्य मुक्तिप्रकरणात्। भूम्यादित्रिपादस्य तस्यार्जुङ्गभूतायां गायत्रयां दिवि परमस्वलोके तत् त्रिपात्पुरुषस्य मूद्धि, दशाङ्गले तज्ज्योतिरेवामृतम् तस्यारतदविभागेन दृष्टखात् । न तु तदङ्गि
For Private and Personal Use Only