SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः शारीरस्थानम् । १८६७ कारणम्। जन्म पुनः शरीरेन्द्रियबुद्धीनां निकायविशिष्टः प्रादुर्भावः । तस्मिन् सनि दुःखं, ता पुनः प्रतिकूलवेदनीयं बाधना पीड़ा ताप इति । इमे मिथ्याशानादयो दुःखान्ता धर्मा अविछेदेन प्रवर्तमानाः संसार इति। यदा तु तत्त्वज्ञानान्मिथ्याज्ञानमति तदा मिथ्याज्ञानापाये दोषा अपयन्ति । दोपागये प्रत्तिरपैति । प्रवृत्त्यपाये जन्मापैति। जन्मापाये दुःखमपैतीति । दुःखापाये चात्यन्तिकोऽपवर्गो निःश्रेयसमिति। तदत्यन्तविमोक्षोऽपवर्गः। “यत्र तु निष्ठा यत्र तु पय्यवसानं सोऽयं तदत्यन्तविमोक्षोऽपवर्गः।” तेन दुःखेन जन्मनाऽत्यन्तं विमुक्तिरपवर्गः। कथमुपात्तस्य जन्मनो हानमन्यस्य चानुपादानम् । एतामवस्थामपश्यन्तामपवर्ग वेदयन्तेऽपवर्गविदः । तदभयमजरमपरं ब्रह्मक्षेनप्राप्तिरिति।“बाधनालक्षणं दुःखमिति ।" वाधना पीड़ा ताप इति नयानुविद्धमनुषक्तपनि गेण वत्तमानं दुःखयोगाद दुःख पिति जन्म सोऽयं सर्वलोकं सुखदुःखात्मकदुःखेनानुविद्धं वहन्त. मिति पश्यन् दुःखं मिहामुर्जन्मनि दुःखदर्शी निविद्यते निविण्णो विरज्यते विरक्तो विमुच्यते। इति गौतमेन आन्वीक्षिकीशास्त्रे सपरीक्षोऽपवगे उक्तः । छान्दोग्योपनिषदि ब्राह्मणम् । अथ य एष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पय स्वेन रूपेणाभिनिष्पद्यते तदभयमजरममृतमिति होवाच तद् ब्रह्मेति स उत्तमः पुरुष इति। तत्र शारीरकसूत्रम्। सम्भद्याविर्भावः स्वेन शब्दात्। मुक्तः प्रतिज्ञानात्। एवमप्युपन्यासात् पूर्वभागदविरोध वादरायणः । व्याख्यातान्येतानि। अथ य एष सम्प्रसादोऽस्माच्छरीरात समुत्थाय परं ज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते इति। परं ज्योतिः उप समीपे सम्पद्य परव्योमशिवपरमात्मरूपेणाविर्भावः क्षेत्रज्ञस्यात्मनः सम्प्रसादस्य स्यात् । कस्मात् ? स्वेन शब्दात् स्वेन रूपेणेति शब्दात्। परमात्मा हि परमव्योमशिवश्चित्सम्प्रसादांशोपाहितः क्षेत्रको भूतस्तस्य स्वं रूपं परव्यांमैवेति। तथाले हि सः। मुक्तः प्रतिज्ञानात् । पूर्व प्रजापतिः प्रतिज्ञातवान् । तद् यथा-स इन्दः समित्पाणिः पुनरेवेयाय । तं ह प्रजापतिरुवाच। मघवन् यच्छन्ति हृदः प्रात्राजीः किमेवेच्छ न पुनरागम इति । स होवाच । स्वप्ने खल्वयं भगव एवं सम्पत्त्यात्मानं जानात्ययमहमस्मीति। नो एवेमानि भूतानि विनाशमेवापोतो भवति नाहमत्र योग्यं पश्यामी त । एवमेवैप मघवनिति होवाच । एतन्खेव ते भूयोऽनुव्याख्यास्यामि । नो एवान्यौतस्मात् । वसापराणि पश्च वर्षाणीति प्रतिज्ञाय प्रजापतिना For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy