SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८६६ चरक-संहिता। ( कतिधापुरुषीयं शारीरम् ज्ञानमुत्पद्यत इति। दृष्टश्च समाधेनाथविशषप्राबल्याभिभवः। नाहमेतत् अश्रौषं नाहमेतदज्ञासिषमन्यत्र मे मनोऽभूदित्याह लोकिक इति। यद्यर्थविशेषपावल्यादनिच्छतोऽपि बुद्धात्पत्तिरनुकायत । “अपवर्ग:प्यवं प्रसङ्गः।" मुक्तस्यापि वाह्यार्थसामर्थ्याद बुद्धय उत्पदंप्ररन्निति। “न निप्प-नावश्यम्भावितात।” कम्मेवशान्निष्पन्नशरीरे चेष्टेन्द्रियार्थाश्रये निमित्तसद्भावाद अवश्यम्भावी बुद्धीनामुत्पादः। न च प्रबलोऽपि सन् वाह्याथै आत्मनो बुद्धात्पादे समो भवति। "तस्येन्द्रियेण संयोगाद बुद्धरत्पादं सामर्थ्य दृष्टनिति ।" "तदभावश्चापवर्गे।” तस्य बुद्धिनिमित्ताश्रयस्य शरीरंन्द्रियस्य धमाधाभावात अभावोऽपवर्गे इति। तत्र यदुक्तम्-अपवर्गऽप्येवं प्रसङ्ग इति तदक्तम् । तस्मात् सर्वदुःख विमोक्षोऽपवर्गः। यस्मात् सव्वदुःखवीज सव्वदुःखायतनश्च अपवर्गे विच्छिद्यते, तस्मात् सव्वेण दुःखेन विमुक्तिरपवर्गः। न निज निरायतनञ्च दुःखमुत्पद्यत इति । “तदथ यमनियमाभ्यासात्मसंस्कारो योगात् चाध्यात्मविध्युपायैः।" "तस्यापवर्गस्याधिगमाय यमनियमाभ्यासात्मसंस्कारः। यमः समानमाश्रमिणां धम्मसाधनम्, नियमस्तु विशिष्टः, तयोरभ्यासः। आत्मसंस्कारः पुनरधम्म हानं धम्मोपचयश्च। योगशास्त्राचाध्यात्मविधिः प्रतिपत्तव्यः। स पुनरासनं प्राणायामः प्रत्याहारो ध्यानं धारणेति। इन्द्रिय विषयेषु प्रसङ्ख्यानाभ्यासो रागद्वेषप्रहाणार्थः। उपायस्तु योगाचारविधानमिति। इत्येवं जातादात्मादिषु प्रमेयेष्वप्रमेयपरात्मरूपतत्त्वज्ञानात् तु । “दुःखजन्मप्रवृत्तिदोपमिथ्याज्ञानानामुत्तरोत्तरापाये तदन्तरापायादपवर्गः।” तत्रात्माद्यपवर्गपय्येन्तप्रमेये मिथ्याशानमनंकप्रकारकं वर्तते। आत्मनि तावन्नास्तीति । अनात्मन्यात्मेति । दुःखे सुख मिति । अनित्ये नित्यमिति । अत्राणे त्राणमिति । सभये निर्भयमिति । इत्यवमादिमिथ्याशानात् प्रतिकूलेषु रागोऽनुकूलेषु द्वषः। रागद्वेषाधिकाराचा सूर्यष्यामायालाभादया टोपा भवन्ति । दापैः प्रयुक्तः शरीरण प्रवत्तेमानो हिंसास्तयप्रतिषिद्धमै थुनादीन्याचरति। वाचाऽनृतपरुष सूचना. सम्बन्धवचनादीनि। मनसा परद्रोहं परद्रव्याभीप्सानास्तिक्यञ्चवमादीनि । सेयं पापात्मिका प्रत्तिरधम्मायति प्रज्ञापराधाद् भवति। अथ शुभा। शरीरेण दानं परित्राणं परिचरणञ्च वाचा सत्यं हितं प्रियं स्वाध्यायश्च मनसा दयामस्पृहां श्रद्धाञ्चेति । सेयं धर्माय बुद्धिसमयोगाद् भवति । तत्र प्रवृत्तिसाधनो धमाधम्मो प्रवृत्तिशब्दंनोक्तो । यथान्नसाधनाः प्राणाः। अन्नं ३ प्राणिनः प्राणा इति। सेयं प्रत्तिः कुत्सितस्याभिपूजितस्य जन्मनः For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy