SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः शारीरस्थानम् । १८६५ उत्पद्यते अन्यत्र तत्त्वज्ञानात् । न चैवं सत्यनुत्पत्तिधर्मकं किञ्चिायधर्मकं प्रतिज्ञायते इति। कम्मै च सत्त्वनिकायनिव्वत्तकम्। तत्त्वज्ञानकृतान्मिथ्यासङ्कल्पविघातान्न रागादात्पत्तिनिमित्तं भवति, सुखदुःखासंवित्तिफलन्तु भवतीति। इत्येवं सिद्धस्त्वपवर्गः प्रमाणप्रमेयाणां तत्त्वज्ञानान्मिथ्याज्ञानादीनामुत्तरोतरापायाद्भवति । तत् तु तत्त्वज्ञानं प्रमाणप्रमेयेषु तेषु तेषु यत् तथा तथा ज्ञानं तन्न, वस्तुतस्तत्त्वज्ञानम् । यतः । स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः । यथा स्वप्ने विषया न सन्त्यथ चाभिमानो भवति एवं प्रत्यक्षादीनि प्रमाणानि न सन्ति न चात्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखानि प्रमेयाणि सन्त्यथ च प्रमाणप्रमेयाभिमानो भवति। अनृतान्यप्येतानि सत्यान्यभिमन्यन्ते। मायागन्धर्वनगरमृगतृष्णिकावद्वा । एषु प्रमाणप्रमेयेष तथा तथा ज्ञानं यत्तज्ज्ञानं ततोऽपैति प्रधानं मिथ्याज्ञानम् अतस्मिंस्तदिति यथा खल्वपुरुषे स्थाणो पुरुष इति । स्थाणो स्थाणरिति च स्वमविषयाभिमानवदभिमानस्तत्त्वमपि मिथ्याज्ञानं सत्यात् तत्त्वज्ञानादपैति। अत एव तत्त्वप्रधानभेदाच्च मिथ्यावुद्धेद्वैविध्योपपत्तिः। स्थाणौ स्थाणु रिति तत्त्वं मिथ्याज्ञानमपुरुषे स्थाणौ पुरुष इति प्रधानं मिथ्याज्ञानमिति द्विविधं मिथ्याशानमुपपद्यते। __कथं तत्त्वज्ञानमुत्पद्यत इति ? समाधिविशेषाभ्यासात्। समाधिस्तु प्रत्याहृतस्येन्द्रियेभ्यो मनसो धारकेण प्रयने न धाय॑माणस्यात्मना संयोगस्तत्त्वबुभुत्साविशिष्टः। सति हि तस्मिन्निन्द्रियार्थेषु बुद्धयो नोत्पद्यन्ते, तदभ्यासवशात् तत्त्वबुद्धिरुत्पद्यते। यदुक्तम्-सति हि तस्मिन्निन्द्रियार्थेषु बुद्धयो नोत्पद्यन्ते । इत्येतत् । “नार्थविशेषप्राबल्यात् ।” अनिच्छतोऽपि बुद्धात्पत्ते तद युक्तम् । कस्मात् ? अर्थविशेषप्राबल्यात् । बुभुत्समानस्यापि बुद्धात्पत्तिदृष्टा। यथा स्तनयित्नुशब्दप्रभृतिषु ; तत्र समाधिविशेषो नोत्पद्यते । “क्षुधादिभिः प्रवर्तनाच।” क्षुत्पिपासाभ्यां शीतोष्णाभ्यां व्याधिभिश्चानिच्छतोऽपि बुद्धयः प्रवत्तन्ते। तस्मादैकाग्रानुपपत्तिरिति । ततस्त्वेतत् समाधिव्युत्थाननिमित्तं समाधिप्रत्यनीकञ्च, सति त्वेतत् । “पूर्वकृतफलानुसन्धात् तदुत्पत्तिः।” पूर्वकृतो जन्मान्तरोपचितस्तत्त्वज्ञानहेतुर्धम्मप्रविवेकफलानुवन्धो योगाभ्याससामथ्यम्। निष्फले ह्यभ्यासे नाभ्यासा आद्रियेरन् । दृष्टं हि लौकिकेषु कर्मस्वभ्याससामर्थ्यम् । प्रत्यनीकपरिहारार्थश्च । “अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः ।” योगाभ्यासजनितो धर्मो जन्मान्तरेऽप्यनुवत्तेते। प्रचयकाष्ठागते तत्त्वज्ञानहेतौ धर्म प्रकृष्टायां समाधिभावनायां तत्त्व २३४ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy