SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८५४ चरक-संहिता। कतिधापुरुषीयं शारीरम् नाभिचक्रे कायव्यूहज्ञानम् । हृदये चित्तसं वित्। इति। व्यासभाष्यञ्चैषाम्।ज्योतिष्मती प्रवृत्तिरुक्ता, मनसः तस्या य आलोकस्तं योगी न्यस्य सूक्ष्मे व्यवहिते विप्रकृष्टे वाऽर्थेऽर्थमधिगच्छति । सूर्ये संयमात् भुवनज्ञानम् । मूर्यमण्डलस्थाः सप्त लोकाः, तत्र मेरोः उदीचीप्रभृति मेरुपृष्ठं यावदित्येष भूलोकः। मेरुपृष्ठादारभ्य ध्वात् ग्रहनक्षत्रताराविचित्रोऽन्तरीक्षलोकः। तत्परं स्खलौकः पश्चविधः । माहेन्द्रस्तृतीयश्चतुर्थः प्राजापत्यो महलोकस्त्रिविधो ब्रह्मलोको जनतपःसत्यभेदात् । चन्द्रे ताराव्यूहज्ञानम् । चन्द्रे संयमं कृता ताराव्यूह विजानीते। ध्र वे तद्गतिज्ञानम्। ध्रुवे संयमं कृखा तासां ताराणां गतिं विजानीयात् । नाभिचक्रे संयमं कृला कायव्यूह विजानीयात् । हृदये चित्तसंवित् । यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म तत्र विज्ञानम्। तस्मिन् संयमाञ्चित्तसंवित् इत्यादि। छन्दतः क्रिया। स्वेच्छया कम्मैकरणं भवति । यथा पातञ्जले। कायाकाशयोः सम्बन्धसंयमात् लघुतूलसमापत्तेश्चाकाशगमनम्। यत्र कायस्तत्राकाशं तस्यावकाशदानात कायस्य। तेन सम्बन्धः प्राप्तिः। तत्र कृतसंयमो जिला तत्सम्बन्धं लघुतूलादिषु आ परमाणुभ्यः समापत्ति लब्ध्वा जितसम्बन्धो लघुले घुखाच्च जले पादाभ्यां विहरति। ततस्तूणेनाभितन्तुमात्रे विहत्य रश्मिषु विहरति। ततो यथेष्टमाकाशे गतिरस्य भवति। इत्येवमादिस्वेच्छया गमनादिक्रियाशक्तिः । दृष्टिदिव्यचक्षुर्भवति । मूर्द्धज्योतिषि सिद्धदर्शनम्। शिरःकपाले च्छिद्रं प्रभास्वरं ज्योतिस्तत्र संयमात् सिद्धानां द्यावापृथिव्योरन्तरालचराणां दर्शनम् । इत्यादि। श्रोत्रमिति। दिव्यं श्रोत्रं भवति। श्रोत्राकाशयो रन्ध्रसंयमाद् दिव्यं श्रोत्रम् । सर्वश्रोत्राणामाकाशः प्रतिष्ठा सर्वशब्दानाञ्च। तदुक्तम् । तुल्यदेशश्रवणानामेकदेशश्रुतिखं सर्वेषां भवतीति ; तच्चैतदाकाशस्य लिङ्गम्। अनावरणञ्चोक्तम् । तथामूर्तस्यानावरणदर्शनाद विभुखमपि प्रख्यातमाकाशस्य । शब्दगुणानुमितं श्रोत्रं, बधिरावधिरयोरेकः शब्दं न गृह्णाति अपरो गृह्णाति तस्मात् श्रोत्रमेव शब्दविषयं, श्रोत्राकाशयोः सम्बन्धे कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते इति। स्मृतिरिति । वक्ष्यते खत्रैव-वक्ष्यन्ते कारणान्यष्टो इत्यादिना। कान्तिरवान्तरमणिमादिप्रादुर्भावः कायसम्पत्तद्धनिभिघातश्च । रूपलावण्यवज्रसंहननखादिः कायसम्पदिति कान्तिर्भवति । इष्टतश्चाप्यदशनम् यदेच्छति तदा दर्शनयोग्य एव न दृश्यते, यदा चेच्छति तदा दृश्यते। किंवा आवेशश्चेतस इति परचेतसः प्रवेशः, ज्ञानमिति सर्वमतीतानागतादिज्ञानम् । शेषं पूर्ववत्। ऐश्वरमिति For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy