________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
शारीरस्थानम् ।
१८५३ इत्यष्टविधमाख्यातं योगिनां बलमैश्वरम्।
शुद्धसत्त्वसमाधानात् तत् सर्वमुपजायते ॥ ४५ ॥ आवेशश्चेत्यादि। शुद्धसत्त्वसमाधानात् रजस्तमोभ्यां विनिर्मुक्तमनःसमाधानात् तदावेशादिकं समुपजायते। तद् यथा। शुद्धमनःसमाधानेन स्वाथन्द्रियार्थग्रहणानिवृत्तस्य मनस आत्मनि स्थिररूपेणावस्थितौ व्याधिस्त्यानसंशय-प्रमादालस्य-विरति-भ्रान्तिदर्शनालब्धभूमिकखानवस्थितखानां चित्तस्य विक्षेपाणामन्तरायाणामभावात् प्रत्यगात्माधिगमाच्च चेतस आवेशाद्यष्ट. विधं योगिनामैश्वरमीश्वरभावाधिगमे बलं भवति । योगिनां हि त्रयोविंशतिः सिद्धयः ; पञ्च क्षुद्रसिद्धयः, दश गुणप्रधानाः सिद्धयः, अष्टो ब्रह्मप्रधानाः सिद्धयः। त्रिकालज्ञखमद्वन्द्वं परचित्ताद्यभिज्ञता। अनार्काम्बुविषादीनां स्तम्भश्वाप्यपराजयः। इति पञ्च क्षुद्राः सिद्धयः। अस्मिन् देहेऽनर्मिवत्त्वं • दूरश्रवणदर्शनं मनोजवित्वं कामरूपं परकायप्रवेशः स्वेच्छामृत्युर्देवक्रीडानु दशेनं यथासङ्कल्प सिद्धिराशासिद्धिरव्याहतगतिः। इति दश गुणप्रधानाः सिद्धयः। अणिमा महिमा लघिमा प्राप्तिः प्राकाम्यमीशित्वं वशित्वं कामावशायिता च। इत्यष्टौ ब्रह्मप्रधानाः सिद्धयः। तासां साधारणकाय्येवेनेदमष्टविधमैश्वरं बलं योगिनामुक्तम्। आवेशश्चेतस इति समाधिदिविषः सवीजो निर्बीजश्च। तत्र वक्ष्यमाणैः सतामुपासनादिभिः शुद्ध मनसि मनसः परशरीरावेशादिकारी समाधिः सवीजः। तद् यथा। बन्धकारणशैथिल्यात् प्रचारसंवेदनाच चित्तस्य परशरीरावेशः। लोलीभूतस्य मनसोऽप्रतिष्ठितस्य शरीरे कशियवशादबन्धः प्रतिष्ठा । तस्य कम्मेणो बन्धकारणस्य शैथिल्यं समाधिबलाद्भवति। प्रचारसंवेदनश्च चित्रस्य समाधिजमेव । कम्मबन्धक्षयात् स्वचित्तस्य प्रचारसंवेदनाच योगी चित्तं स्वशरीरानिष्कृष्य शरीरान्तरेषु निक्षिपति। निक्षिप्त चित्तञ्चेन्द्रियाण्यनुपतन्ति यथा मधुकरराजं मक्षिका उत्पतन्तमनूत्पतन्ति निविश्यमानमनुविशन्ते तथेन्द्रियाणि पर शरीरावेशे चित्तमनुविधीयन्ते इति । __ अर्थानां ज्ञानमिति । पातञ्जले । प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् । भुवनशानं मूथ्य संयमात् । चन्द्रे ताराव्यूहशानम् । ध्रुवे तद्गतिज्ञानम् । अर्थानां छन्दतः क्रियेति अर्थानां छन्दतः करणम्। दृष्टिरतीन्द्रियदर्शनम् । श्रोत्रमतीन्द्रियश्रवणम्। स्मृतिः सर्वभावतत्त्वस्मरणम्, कान्तिरमानुषी कान्तिः। इष्टतञ्चाप्यदर्शनमिति
For Private and Personal Use Only