SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८५२ चरक-संहिता। कतिधापुरुषीयं शारीरम् आवेशश्चेतसो ज्ञानमर्थानां छन्दतः क्रिया। दृष्टिः श्रोत्रं स्मृतिः कान्तिरिष्टतश्चाप्यदर्शनम् ॥ चय्यण विद्यया श्रद्धया च सम्पादितः सत्काराख्यो दृढभूमिर्भवति। व्युत्थानसंस्कारेण द्रागित्येवानभिभूतविषय इत्यर्थः । ०। दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंशा वैराग्यम् । १४ । स्त्रियोऽन्नपानमैश्वय्येमिति दृष्टविषये वितृष्णस्य स्वर्गादिप्रकृतिलयखपाप्नेः, आनुश्रविक विषये वितृष्णस्य दिव्यादिव्यविषयसम्प्रयोगेऽपि चित्तस्य विषयदोषदर्शिनः प्रसङ्ख्यानबलादनल्पभोगात्मिका हेयोपादानशून्या वशीकारसंज्ञा वैराग्यम् । ० । तत् परं पुरुषख्यातेगुणवैतृष्ण्यम् । १५। दृष्टानुश्रविकविषयदोषदर्शी विरक्तः पुरुषदशेनाभ्यासात् तच्छुद्धिः। प्राग् विवेकच्यायिनस्तदबुद्धिगुणेभ्यो व्यक्ताव्यक्तधर्मभ्यो विरक्त इति द्वयं वैराग्यम्। तत्र यदुत्तरं यज्ञानप्रसाधनमात्रं यस्योदये प्रत्युदितख्यातिरेवं मन्यते प्राप्तं प्रापणीयं क्षीणाः क्षेतव्याः क्लेशाश्छिन्नः श्लिष्टपा भवसंक्रमो यस्य अविच्छेदात् जनिता म्रियते मुखापि जायते । यस्यैव परा काष्ठा वैराग्यं तस्यैवान्तरीयकं कैवल्यमिति। अथोपायद्वयेन निरुद्धचित्तवृत्तेः कथमुच्यते सम्प्रज्ञातः समाधिरिति । ०। वितकेविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः । १६ । वितकश्चित्तस्यालम्बने स्थूल आभोगः, सूक्ष्मो विचारः, आनन्द आहादः एकात्मिका संवित् अस्मिता। इति रूपचतुष्टयानुगमात् चतुर्विधः समाधिः। तत्र प्रथमः सवितकः समाधिः, द्वितीयो वितकिणः सविचारः, तृतीयो विचारवितर्किणः सानन्दः, चतुर्थस्तद्वितके विचारानन्दिनोऽस्मितामात्र इति। सन्चे एते सालम्बनाः समाधयः सम्प्रज्ञाताख्याः। अथ असम्प्रशातसमाधिः किमुपायः किंस्वभावो वेति । ०। विरामप्रत्ययाभ्यासपूर्वः संस्कारविशेषोऽन्यः ।१७। सर्ववृत्तिप्रत्यस्तसमये संस्कारविशेषो निरोधश्चित्तस्य समाधिरसम्प्रज्ञातः। तस्य परं वैराग्यमुपायः। सालम्बनोऽभ्यासस्ततसाधनाय न कल्प्यत इति विरामप्रत्ययो निर्वस्तुक आलम्बनीक्रियते। साथशून्यस्तदभ्यासपूर्ण चित्तं निरालम्बनमभावप्राप्तमिव भवतीत्येष निर्बीजः समाधिरसम्प्रज्ञातः इति ॥४४॥ गङ्गाधरः-ननु वशिखमेव किं योगसमाधितो जायते न खन्यदित्यत आहसम्प्राप्तिमाह-वशित्वमित्यादि। वशित्वं वक्ष्यमाणमष्टविधमैश्वर्यबलम् । 'सशरीरस्य' इतिपदेन शरीरेण सहैव वशित्वं भवतीति दर्शयति ॥४४॥ चक्रपाणिः-आवेश इत्यादि। श्रावेशः परपुरप्रवेशः। चेतसो ज्ञानमिति परचित्तशानम् । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy