SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः! शारीरस्थानम् । १८५१ एव पुरुषस्तदा किमत्र केवलो व्यपदिश्यते। भवति च व्यपदेशत्तिः । तथा प्रतिषिद्धवस्तुधर्मा निष्क्रियः पुरुषस्तिष्ठति। बाल्यः स्थास्यति स्थित इति गतिनिवृत्तौ धाखर्थमात्रं गम्यते। तथाऽनुत्पत्तिधर्मा पुरुष इति उत्पत्तिधर्मस्याभावमात्रं गम्यते, न पुरुषान्वयी धम्मः, तस्माद्विकल्पितः स धम्मस्तेन चास्ति व्यवहार इति । ० । अभावप्रत्ययालम्बना वृत्तिनिद्रा।९। सा च सम्प्रबोधे प्रत्यवमर्शः प्रत्ययविशेषः । कथम् ? सुखमहमस्खाप्सं प्रसन्नं मे मनः प्रज्ञा मे विशारदीकरोति, दुःखमहमस्खाप्सं श्रान्तं मे मनो भ्रमत्यनवस्थितम् । गाड़े मूढोऽहमस्खाप्सं गुरूणि मे गात्राणि क्लान्तञ्च चित्तमलसं मथितमिव तिष्ठतीति। स खल्वयं प्रबुद्धस्य प्रत्यवमशो न स्यात् । असति प्रत्ययानुभवे तदाश्रिताः स्मृतयश्च तद्विषया न स्युस्तस्मात् प्रत्ययविशेषो निद्रा, सा च समाधावितरप्रत्ययवन्निरोद्धव्येति । ० । अनुभूतविषयासम्प्रमोषः स्मृतिः । १० । किं प्रत्ययस्याहोस्विद्विषयस्येति। आत्मोपरक्तप्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासस्तथाजातीयकं संस्कारमारभते । स संस्कारः स्वव्यञ्जकाञ्जनस्तदाकारामेव ग्राह्यग्रहणोभयात्मिकां स्मृतिं जनयति। तत्र ग्रहणाकारपूर्वा बुद्धिः ग्राह्याकारपूर्वा स्मृतिः सा च द्वयी भवति-भावितस्मत्तेव्या चाभावितस्मतव्या च ; स्वप्ने भावितस्मर्तव्या, जागरितसमये खभावितस्मर्त्तव्येति । सर्वाः स्मृतयः प्रमाणविपर्याय विकल्पनिद्रास्मृतीनामनुभवात् सम्भवन्ति। सर्वाश्चैता वृत्तयः सुखदुःखमोहात्मिकाः; सुखदुःखमोहाश्च क्लेशेषु व्याख्येयाः। सुखानुशयी रागः, दुःखानुशयी द्वेषः, मोहः पुनरविदाति। एनाः सर्वा वृत्तयो निरोद्धव्याः। आसां निरोधे सम्प्रज्ञातो वा समाधिर्भवति, असम्प्रज्ञातो वेति । ०। अथासां निरोधे क उपायः। अभ्यासवैराग्याभ्यां तनिरोधः । ११ । चित्तनदी नाम उभयतोवाहिनी। वहति कल्याणाय वहति पापाय। या तु कैवल्यप्रागभवा विवेकविषयनिम्ना सा कल्याणवहा। संसारपागभवा अविवेकविषयनिम्ना पापवहा। तत्र वैराग्येण विषयस्रोतः खिलीक्रियते। विवेकदर्शनाभ्यासेन विवेकस्रोत उद्घाट्यते इति उभयाधीनश्चित्तवृत्तिनिरोधः। । तत्र स्थितौ यत्नोऽभ्यासः । १२। चित्तस्यात्तिकस्य प्रशान्तवाहिता स्थितिः तदर्थः प्रयत्नो वीर्यमुत्पिपादयिषया तत्साधनानुष्ठानमभ्यासः ।। स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढ़भूमिः । १३ । दीर्घकालासेवितः तपसा ब्रह्मविषयोपादानार्थे मनसोऽनवस्थानात्। आत्मस्थे मनसीति विषये निवृत्ते केवलात्मज्ञानस्थे। स्थिर इत्यचले आत्मज्ञानप्रसक्त एवेति यावत्। तदुभयमिति सुखदुःखम् । योगधर्मान्तर For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy