SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८५० चरक-संहिता। कतिधापुरुषीयं शारीरम् शक्तिर्यथा कैवल्ये ; व्युत्थानचित्ते तु सति तथापि भवती न तथा।। कथं तर्हि ? दर्शितविषयवाद । वृत्तिसारूप्यमितरत्र ।३। व्युत्थाने याश्चित्तवृत्तयस्तद्विशिष्टवृत्तिः पुरुषः। तथा च सूत्रम् । एकमेव दर्शनं ख्यातिरेव दर्शनमिति । चित्तम् अयस्कान्तमणिकल्पं सन्निधिमात्रोपकारिदृश्यखेन स्वं भवति पुरुषस्य स्वामिनः। तस्माच्चित्तवृत्तिनिरोधे पुरुषस्यानादिसम्बन्धो हेतुः। ताः पुनर्निरोद्धव्या बहुवे सति चित्तस्य ।। वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ।४। क्लेशहेतुकाः काशयपचये क्षेत्रीभूताः क्लिष्टाः ; गुणविकारविरोधिन्य अक्लिष्टाः क्लिष्टप्रवाहपतिता अप्यक्लिष्टाः। क्लिष्टच्छिद्रेषु अप्यक्लिष्टा भवन्ति । अक्लिष्टच्छिद्रेषु क्लिष्टा अप्यक्लिष्टा इति । तथाजातीयकसंस्कारा त्तिभिरेव क्रियन्ते, संस्कारैश्च वृत्तय इति। एवं वृत्तिसंस्कारचक्रमनिशमावर्त्तते। तदेवम्भूतं चित्तमवसिताधिकारमात्मकल्पेन व्यवतिष्ठते प्रलयं वा गच्छतीति । ताः क्लिष्टाश्चाक्लिष्टाश्च पञ्चधा वृत्तयः ।। प्रमाण-विपर्ययविकल्प-निद्रा-स्मृतयः ।५। तत्र । प्रत्यक्षानुमानागमाः प्रमाणानि । ६। इन्द्रियप्रणालिकया चित्तस्य वाद्यवस्तूपरागात् तद्विषया सामान्यविशेषात्मनोऽथस्य विशेषावधारणप्रधाना दृत्तिः प्रत्यक्षं प्रमाणम्। फलमविशिष्टः पौरुषेयश्चित्तवृत्तिनिरोधः। सम्प्रति संवेदी पुरुष इत्युपरिष्टादुपपादयिष्यामः। अनुमेयस्य तुल्यजातीयेष्वनुत्तो भिन्नजातीयेभ्यो व्यावृत्तः सम्बन्धो यस्तद्विपया सामान्यविशेषावधारणप्रधाना तिरनुमानम् । यथा देशान्तरमाप्तगतिमञ्चन्द्रतारकं चैत्रवत् । विन्ध्यश्चाप्राप्तरगतिः। आप्ते न दृष्टोऽनुमितो वाथः परत्र स्वबोधसंक्रान्ततया शब्देनोपदिश्यते। शब्दात् तदर्थविषया वृत्तिःश्रोतुरागमः शब्दार्थो न वक्तने द्रष्टुरनुमितार्थः स आगमः प्लाते, मूलवक्तरि तदृष्टानुमितार्थ निर्विप्लवः स्यात् ।। विपर्ययो मिथ्याज्ञानमतपप्रतिष्ठम् । ७ । स वा कस्मान्न प्रमाणम् ? यतः प्रमाणेन बाध्यते, भूतार्थविषयखात् प्रमाणस्य ; तत्र प्रमाणेन बाधनम् अप्रमाणस्य दृष्टम् । तद् यथा-द्विचन्द्रदर्शनं सद्विषयेणैकचन्द्रदर्शनेन बाध्यते। सोऽयं पञ्चविधो भवत्यविद्याऽस्मितारागद्वेषाभिनिवेशाः पञ्च लेशा इति । एत एव स्वसंशाभिस्तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्र इति । एते चित्तमलप्रसङ्गेनाभिधीयन्ते । ०। शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः । ८। स न प्रमाणोपारोही विपर्ययोपारोही च ; वस्तुशून्यवेऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते। तद यथा-चैतन्यं पुरुषस्य स्वरूपमिति । यदा चितिः श्लोकार्द्धन उक्तम्, तथापि योगमोक्षयोरिह कत्तं तया वेदनानिवृत्तिं दर्शयति, इति न पौनरुक्तयम् । यथा योगो वेदनानिवर्त्तको भवति, यश्च योगस्तमाह-आत्मेत्यादि। अनारम्भादिति For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy