________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'म अध्यायः शारीरस्थानम् ।
१८४६ पातञ्जले दर्शने योगशासने चोक्तः। योगश्चित्तवृत्तिनिरोधः। तदा द्रष्टुः खरूपेऽवस्थानम्। वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः। प्रमाण-विपर्यय-विकल्पनिद्रा-स्मृतयः। प्रत्यक्षानुमानागमाः प्रमाणानि । विपर्ययो मिथ्याशानमतद्रूपप्रतिष्ठम्। शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः। अभावप्रत्ययालम्बना वृत्तिनिद्रा। अनुभूतविषयासम्प्रमोषः स्मृतिरिति वृत्तयः। अभ्यासवैराग्याभ्यां तनिरोधः। तत्र स्थितौ यत्नोऽभ्यासः। स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः। दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् । तत् परं पुरुषख्यातेगुणवैतृषण्यमिति ।
मूत्राण्येतानि वेदव्यासेन व्याख्यातानि । तद् यथा। योगः समाधिः, स च सार्वभौमश्चित्तस्य धर्मः । क्षिप्रं मूढं विक्षिप्तमेकाग्रं निरूहमिति चित्तभूमयः । तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिन योगपक्षे वत्तते। यस्त्वेकाग्रे मनसि सद्भूतमर्थ प्रद्योतयति क्षिणोति च क्लेशान् कम्मेबन्धनानि च श्लथयति निरोधमभिमुखं करोति स सम्प्रदातो योग इत्याख्यायते। स च तर्कानुगतो विचारानुगत आनन्दानुगतः अस्मितानुगतः इत्युपरिष्टात् प्रवेदयिष्यामः । सर्ववृत्तिनिरोधे खसम्प्रशातः समाधिस्तस्य लक्षणाभिधित्सयेदं सूत्रं प्रवत्त । । यागश्चित्तत्तिनिरोधः । १ । इति । सर्वशब्दाग्रहणात् सम्प्रज्ञातोऽपि योग आख्यायते। चित्तं हि प्रख्यापत्तिस्थितिशीलखात् त्रिगुणम्। प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्टमैश्वर्यविषयोपगं भवति। तदेव तमसानुविद्धमधाज्ञानावैराग्यानेश्वोपगं भवति। तदेव प्रक्षीणमोहावरणं सर्चतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति । तदेव तमोऽनुविद्धरजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति तत् परं प्रख्यानमित्याचक्षते ध्यायिनः। चितिशक्तिरपरिणामिन्यप्रतिसंक्रमा दशितविषया शुद्धा चानन्ता च सत्त्वगुणाधिका चेयम् । अतो विपरीता विवेकख्यातिरित्यतस्तस्यां विरक्तं चित्तं तामपि ख्याति निरुद्धि । तदवस्थ संस्कारोपगं भवति । स निवाजः समाधिः । न च तत्र किञ्चित् सम्प्रज्ञायते इत्यसम्प्रज्ञातः। द्विविधः स योगश्चित्तत्तिनिरोध इति । तदवस्थं चेतसि विषयाभावात् स्वरूप इत्यारोपितम्। बुद्धिबोधात्मा पुरुषः किंस्वभाव इति ।। तदा द्रष्टुः स्वरूपेऽवस्थानम् ।रा स्वरूपप्रतिष्ठा तदानीं चितिनिवृत्ता वेदना भवतीति सूचयति । मोक्षप्रवर्तक इति मोक्षकारणम् । किंवा, 'योगमोक्षौ निवर्तकौ' इति पाठः, तदा, अस्मिन् पक्षे यद्यपि योगमोक्षयोवदनानिवत्र्तकत्वं 'योगे मोक्ष च' इत्यादिना
For Private and Personal Use Only