________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४८
चरक-संहिता। [कतिधापुरुषीयं शारीरम् योगे मोक्षे च सर्वासां वेदनानामवर्तनम् । . मोक्षो निवृत्तिनिःशेषा योगो मोक्षप्रवर्तकः ॥
आत्मेन्द्रियमनोऽर्थानां सन्निकर्षात् प्रवर्त्तते। सुखं दुःखमनारम्भादात्मस्थे मनसि स्थिरे ॥ निवर्त्तते तदुभयं वशित्वञ्चोपजायते ।
सशरीरस्य योगज्ञास्तं योगमृषयो विदुः ॥ ४४ ॥ गङ्गाधरः-अथ यदि सुखदुःखात्मिका वेदना तर्हि कालबुद्धीन्द्रियाथानां त्रिविधयोगात् दुःखप्रवृत्तिस्तचिकित्सया धातुवैषम्यनिवृत्तौ तजदुःख निवृत्तिः सुखस्य प्रत्तिः, प्रवृत्तस्य च सुखस्य कालबुद्धीन्द्रियार्थसमयोगाद्धातुसाम्यस्थितिस्तज्जमुखस्य च स्थितिरिति सुखात्मिका वेदना तु दुःखानुबन्धा न चिकित्सया निवर्त्तते। इत्याशङ्का प्रागग्निवेश उवाच-क चैता वेदनाः सर्वा निवृत्तिं यान्त्यशेषत इति। सर्वाः सुखदुःखात्मिका वेदनाः क च चिकित्सायामशेषतो निवृत्तिं यान्तीति। तत्रोत्तरमाह-योगे मोक्षे चेत्यादि । सर्वासां सुखदुःखात्मिकानां वेदनानामशेषतोऽवर्त्तनं निवृत्तियोगे भवति मोक्षे च भवति। कः पुनर्मोक्षो योगश्चेत्यत आह--मोक्षो निवृत्तिनिःशेषेति । निःशेषा निवृत्तिः सुखदुःखात्मिकाया वेदनाया मोक्षस्तस्य मोक्षस्य प्रवर्तको योग इति। कथमिति ? आत्मेत्यादि। आत्मादिसन्निकर्षात् सुखं प्रवर्त्तते दुःखश्च। सम्यक् सन्निकर्षात् सुखमसम्यक्सन्निकर्षात् दुःखं प्रवर्तते । तत्रात्मस्थे स्थिरे मनसि सत्यनारम्भावाचा शरीरेण मनसा च प्रवृत्तेरभावात् तदुभयं सुखश्च दुःखश्च निवर्त्तते योगसिद्धस्य सशरीरस्य जीववतः पुरुषस्य वशिखञ्चोपजायते । वशी हि स यश्चेतः समाधत्ते यश्च सर्च निरस्यति, न तु स वशी यः कर्म कृखा तत्फल स्वयं भुङ्क्ते । तं योगक्षा ऋषयो योगं विदुरिति किंवा, इन्द्रियाण्यपि प्राधान्यख्यापनार्थं पृथग वेदनाश्रयत्वेन सेन्द्रियग्रहणेनोच्यन्ते। वेदनाया देहेन्द्रियगतत्वं तदाधारत्वेन प्रतीयमानत्वाजज्ञेयम्। द्रवं मूत्रम् । गुणाः शब्दादयः । शरीरगता एते हि केशादयो न वेदनाधारा इत्यनुभव एव प्रमाणम् । या तु मूत्रपुरीषगता वेदना ग्रहणीमूत्रकृच्छ्रादौ वक्तव्या, सा मूत्रपुरीषाधारशरीरप्रदेशस्यैव बोध्या ॥ ४३ ॥
चक्रपाणिः-क्व चैता वेदनाः सर्वा इत्यस्योत्तरम् योग इत्यादि। योगः "अनारम्भाद" इत्यादिग्रन्थे वक्ष्यमाणः । मोक्षोऽत्यन्तशरीरोच्छेदः । निःशेषेति न पुनर्भवति, एतेन योगेन निवृत्ता
For Private and Personal Use Only