________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः] शारीरस्थानम् ।
१८४७ उपादत्ते हि सा भावान् वेदनाश्रयसंज्ञकान् । स्पृश्यते नानुपादानो नास्पृष्टो वेत्ति वेदनाः॥ ४२ ॥ वेदनानामधिष्ठानं मनो देहश्च सेन्द्रियः।
केशलोमनखाग्रान्न-मलद्रवगुणैविना ॥४३॥ वीजाङ्क रवत्। कस्मादेवं तथाह-उपादत्त इत्यादि। हि यस्मात् सा खल्विच्छाव पात्मिका तृष्णा वेदनाश्रयसंशकान् भावान् शरीरमनांसि उपादत्ते, तस्मात् सुखदुःखानां वेदनानां कारणं तृष्णा । ननु च तृष्णा वेदनाश्रयसंशकान् भावानुपादत्ते न तु वेदनानाश्रयान्। स्पर्शनेन्द्रियेण संस्पशों मानसस्पर्शश्च सुखदुःखात्मकवेदनाप्रवत्तेकः केशादिच्छेदनादितो न कुतः सुखदुःखानुभवः स्यादित्यत आह -स्पृश्यत इत्यादि। स्पर्शनेन्द्रियेण शरीरस्थेन मनसा चानुपादानस्तृष्णानुपादानको भावो न स्पृश्यते। स्पर्शनेन्द्रियेणास्पृष्टश्च भावो न सुखदुःखात्मिका वेदना वेत्ति ॥४२॥
गङ्गाधरः-तहि वेदनाश्रयसंशका वेदनानामधिष्ठानानि के भावारतृष्णया तूपादत्ता इत्यत आह-वेदनानामित्यादि । मनः सेन्द्रियश्च देहो वेदनानां सुखदुःखानामधिष्ठानमाश्रय इति। किमधिष्ठानमुच्यते इति प्रश्नस्योत्तरम् । ननु सेन्द्रियो देहश्चेदवेदनाश्रयः कथं केशादिच्छेदनादिषु न सुखदुःखसंवेदनं स्यादित्यत आह -सेन्द्रियो देह इति। केशलोमनखाग्राणि तथान्नमलद्रवाणां विण्मूत्राणां गुणैर्विना देहसंज्ञः। न हि केशादिस्तृष्णोपादानं, तृष्णोपादानन्तु स्पर्शनेन्द्रियं मनश्च, केशादिव्यतिरिक्त देहं सेन्द्रियं स्पृशति न केशादीन स्पृशति। तस्मात् केशादयो न वेदनां विदन्ति केशादिव्यतिरिक्तो देहः सेन्द्रियो वेदनां वेतीति । गौतमेनाप्येवमुक्तम् । आपनखात् इत्यादि ॥४३॥ निवृत्तिविषयस्य सुखदुःखहेतुतामपेक्ष्य सुखदुःखे जनयतीति वाक्यार्थः। यथोक्ततृष्णायाः सुखदुःखहेतुत्वं दर्शयन्नाह-उपादत्ते हीत्यादि। वेदनाश्रयसंज्ञकानिति वेदनाकारणत्वेनोक्तान कालाद्ययोगादिरूपान् । अथ तृष्णा चेत् सुखदुःखकारणम्, तत् किमिन्द्रियार्थेनापरेण कारणेनेत्याहस्पृश्यत इत्यादि। अनुपादान इति अविद्यमानार्थरूपे स्पर्शकारणे, अर्थ विना नार्थस्य स्पर्शा भवति । अथ न भवत्य स्पर्शस्ततः किमित्याह-'नास्पृष्टो वेत्ति वेदनाः' इति । अर्थस्पर्शशून्यः सन् न सुखदुःखे अनुत्पन्नत्वादेब वेत्तीत्यर्थः ॥ ४२ ॥
चक्रपाणिः-वेदनानां किमधिष्ठानमित्यस्योत्तरमाह-वेदनानामित्यादि। देहः सेन्द्रिय इत्यनेन निरिन्द्रियो देहो केशलोमादिको निरस्तः। तदेव स्पष्टार्थे विवृणोति-केशेत्यादि ।
For Private and Personal Use Only