________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४६
चरक-संहिता। कतिधापुरुषीयं शारीरम् स्पर्शनेन्द्रियसंस्पर्शः रपर्चा मानस एव च । द्विविधः सुखदुःखानां वेदनानां प्रवर्तकः ॥४१॥ इच्छाद्वषात्मिका तृष्णा सुखदुःखात् प्रवर्तते । तृष्णा च सुखदुःखानां कारणं पुनरुच्यते ॥
दुःखं वा कम्म विना भवति अर्थः सहात्मादीनां कम्मणि योगे सति हि यच्च यथासुखं यच्च यथादुःखं तत् तथा बोद्धव्यमुच्यते ॥ ४० ॥
गङ्गाधरः-ननु तत् कम्मे किं भवति, तदाह-स्पर्शनेन्द्रियेत्यादि । सुखदुःखानां वेदनानां प्रवर्तको हि द्विविधः। वाह्यार्थग्रहणे स्पर्शनेन्द्रियसंस्पर्श एकः प्रवर्तकः। मनोबुद्धार्थग्रहणे मानसः स्पर्श एव च द्वितीयः ॥४१॥ __गङ्गाधरः-एवं वेदनानामपि प्रवर्तकलमस्ति, तदाह--इच्छेत्यादि। इच्छा द्वषश्चेत्युभयात्मिका तृष्णा सुखदुःखात प्रवर्तत इति तृष्णाप्रवर्तिका वेदना, पुनस्तृष्णा च सुखदुःखानां कारणं प्रवर्तिकोच्यते। इति परस्परं कारणं
सुखदुःख भवतः। इन्द्रियादीनाञ्च सुखदुःखकारणत्वं स्पष्टमेव। कर्मापि च शुभं सुखकारणम्, अशुभञ्च दुःखकारणम् । यद्यात्मादय एव कारणम्, तत् किमर्थं कालाद्ययोगातियोगादय इहोच्यन्त इत्याह --यथेत्यादि। यद बोद्धव्यं सुखदुःखं यथा बोव्यं कार्यवशात् भवति, तथैवोच्यते नान्यथा, सात्म्यासात्म्येन्द्रियार्थजन्दावेन सुखदुःखे प्रतीयमाने चिकित्सायामुपयुक्त भवतः, नास्मादिजन्यत्वेन। आत्मादिजन्यत्वेनेह सुखदुःखे अभिधीयेते, न ह्यात्मादयो सुखदुःखहेतुतया प्रतिपद्यन्ते, किन्स्वसात्म्येन्द्रियार्थयोगादय एव दुःखहेतवस्त्यज्यन्ते, सुखहेतवः सात्म्येन्द्रियार्थयोगादयस्तूपादीयन्ते इति भावः ॥ ४० ॥
चक्रपाणिः-इदानीं सकलकारणव्यापक योगं पुत्पादयितुमैन्द्रियकं मानसस्पर्श दर्शयितुमाह---स्पर्शनेन्द्रियसंस्पर्श इति। अर्थनेन्द्रियाणां सम्बन्धः स्पर्शनेन्द्रियकृतो भवति, चक्षुरादीन्यपि स्पृष्टमेवाथै जनयन्ति, यदि ह्यस्पृष्टमेव चक्षुः श्रोत्रं घ्राणं वा वेत्ति, तदा विदूरमपि गृहीयात् न च गृह्णाति। तस्मात् स्पृष्टत्वमिन्द्रियाणां प्रतिपद्यते, मानसस्तु स्पर्शश्चिन्त्यादिना अर्थेन समं सूक्ष्मोऽस्त्येव । येन मनः किञ्चिदेव चिन्तयति, न सबम्। सेन, यन्मनसा स्पृश्यते, तदेव मनो गृह्णातीति स्थितिः ॥४१॥
चक्रपाणिः सुख दुःखोत्पत्तिक्रममाह-इच्छेत्यादि। सुखादिच्छारूपा तृष्णा, दुःखाच्च द्वषरूपा तृष्णा प्रवर्तते। इयोत्पन्नतृष्णा ईप्सितेऽर्थे प्रवर्तयन्ती द्विष्ट च निवर्तयन्ती, प्रवृत्ति
For Private and Personal Use Only