________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
शारीरस्थानम् ।
१८५५ मोक्षो रजस्तमोऽभावात् बलवत्कर्मसंक्षयात् । वियोगः कर्मसंयोगैः अपुनर्भव उच्यते ॥ ४६॥ सतामुपासनं सम्यगसतां परिवर्जनम् । व्रतचोपवासश्च नियमाश्च पृथग्विधाः ॥ धारणं धर्मशास्त्राणां विज्ञानं विजने रतिः ।
विषयेष्वरतिर्मोदे व्यवसायः परा धतिः ॥ इति। स्वेच्छयान्तर्धानं भवति । पातञ्जले। कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासम्प्रयोगेऽन्तर्दानम्। कायरूपसंयमात् रूपस्य ग्राह्यशक्ति प्रतिबध्नाति, ग्राह्यशक्तिस्तम्भे सति चक्षुःप्रकाशासम्प्रयोगेऽन्तर्द्वानमुत्पद्यते योगिनः। एतेन शब्दाद्यन्त नमुक्तं घेदितव्यमिति । इत्यष्टविधमैश्वरं वलं योगिनां शुद्धसत्वसमाधितः तत् सर्वमुपजायत इति ॥४५॥
गङ्गाधरः-- ननु योगो मोक्षप्रवर्तक इत्युक्तं यत्, तत्र मोक्षः कीदृश इत्यत आह-मोक्ष इत्यादि। रजस्तमोऽभावात् ततो बलवकर्मणां धर्माधर्माणाश्च संक्षयात् । तथा कर्मणां नित्यनैमित्तिककाम्यानां संयोगैर्वियोगो मोक्षोऽपुनर्भव उच्यते ॥४६॥
गङ्गाधरः .. नन्वेवं मोक्षस्य प्रवर्तके योगे स्मृतिम् जायते सा कथं विज्ञायत इत्यत आह सनामुपासनमित्यादि। व्रतचय्यो चान्द्रायणादिव्रताचरणम् । उपवासः, वाहादिनियमात्। नियमाश्च दशविधाः पृथक् । धर्मशास्त्राणां धारणमभ्यासः। विज्ञानं प्रमाणेन प्रमाज्ञानम्। विजने निजने स्थाने स्थितौ रतिः। विषयेषु रत्यभावः। मोक्षे व्यवसायः। मोक्षसाधनकर्मसु
योगप्रभावाटुपात्तैश्वर्य कृतम्। शुद्धसत्त्वसमाधानादिति नीरजस्तमस्कस्य मनस आत्मनि सम्यगाधानात् ॥४१॥
चक्रपाणि:-अथ कथं मोक्षो भवति, कश्चेत्याह-मोक्ष इत्यादि । बलवत्कर्मसंक्षयादिति अवश्यभोक्तव्यफलस्य कम्र्मणः क्षयात् । सर्वसंयोगैरिति सर्वैरात्मसम्बन्धिभिः शरीरबुद्धपहङ्कारादिभिः ; न पुनः शरीरादिसम्बन्धो भवतीत्यपुनर्भवः ॥ ४६॥
चक्रपाणिः---प्रस्तावान्मोक्षोपायमाह-सतामित्यादि। परा तिरिति चलितमनोनियमनम् । * सर्चसंयोगैरिति चक्रः।
For Private and Personal Use Only