SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः १८४३ शारीरस्थानम्। असंस्पर्शोऽतिसंस्पर्शो हीनसंस्पर्श एव च। स्पृश्यानां संग्रहेणोक्तः स्पर्शनेन्द्रियबाधकः ॥ यो भूतविषवातानामकालेनागतश्च यः। स्नेहशीतोष्णसंस्पर्शो मिथ्यायोगः स उच्यते ॥ रूपाणां भावतां दृष्टिविनश्यति हि दर्शनात् । दर्शनाच्चातिसूक्ष्माणां सर्वशश्चाप्यदर्शनात् ॥ द्विष्टभैरवबीभत्स-दूरातिक्लिष्ट--दर्शनात् । तामसानाञ्च रूपाणां मिथ्यासंयोग उच्यते ॥ अत्यादानमनादानमोकसात्मादिभिश्च यत् । रसानां विषमादानमल्पादानञ्च दूषणम् ॥ अतिमृद्वतितीक्ष्णानां गन्धानामुपसेवनम् । असेवनं सर्वशश्च घ्राणेन्द्रियविनाशनम् ॥ इति चेन्न। पूर्व यदुक्तं “योगो मिथ्या न चाति च” इति। न च योगः खलु द्विविधः सर्वशो योगाभावो हीनयोगश्च नत्रो द्वार्थग्रहणात् । असंस्पर्शी हीनसंस्पर्शश्च स्पर्शायोगः। अतिसूक्ष्मदशनं सर्वशोऽदर्शनश्च रूपायोगः । रसानामनादानमल्पादानञ्च रसायोगः। ओकसात्म्यादिभिर्यद विषमादानं तद्रसमिथ्यायोगः। गन्धानां सर्वशोऽसेवनमतिमृदुसेवनञ्च गन्धायोगः, सर्वथोग्रशब्दाश्रवणात्। स्पृश्यानामिति स्पृश्यत्वेनोक्तानां शास्त्रेऽभ्यङ्गोत्सादनादीनाम् । भूताः सविषक्रिमिपिशाचादयः । यो भूतविषवातानां संस्पर्शः, तथाकालेनागतः स्नेहशीतोष्णसंस्पर्शश्चेति योजना। तत्राकाले स्नेहसंस्पर्शो यथा-अजीर्ण कफवृद्धिकाले अभ्यङ्गस्पर्श उष्णे चोष्णस्पर्शोऽकालेनागतो ज्ञेयः। सर्वशश्चाप्यदर्शन मिति भास्वतां सूक्ष्माणाञ्च सर्वथादर्शनात् । अतिश्लिष्टमिति नेत्रप्रत्यासन्नम्। तामसानां रूपाणाञ्च दर्शनात् विनश्यति दृष्टिरिति सम्बन्धः। मिथ्यायोगः स इति द्विष्टभैरवादिरूपः । अतिसूक्ष्मदर्शनञ्च मिथ्यायोग एव ज्ञेयः। ओकसात्म्या * क्लिष्टत्यत्र श्लिष्टेति वा पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy