SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८४४ चरक-संहिता। कतिधापुरुषीयं शारीरम् पूतिभूतविषद्विष्टा गन्धा ये चाप्यनार्त्तवाः। तैर्गन्धैर्घाणसंयोगो मिथ्यायोगः स उच्यते ॥ इत्यसाम्यार्थसंयोगस्त्रिविधो दोषकोपणः । असात्म्यमिति तद्विद्याद यन्न याति सहात्मताम् ॥ ३७॥ मिथ्यातिहीनयोगेभ्यो यो व्याधिरुपजायते । शब्दादीनां स विज्ञ यो व्याधिरैन्द्रियको बुधैः ॥ वेदनानामशातानाम् ७ इत्येते हेतवः स्मृताः। सुखहेतुर्मतरत्वेकः समयोगः सुदुर्लभः ॥३८॥ अतितीक्ष्णानां गन्धानां सेवनमतियोगः, पूतिगन्धादिसेवनं मिथ्यायोग इति । इति त्रिविधोऽसात्म्यार्थसंयोगो दोषकोपणः। यत् तु सहात्मतामात्मीभावं न याति तदसात्म्यं विद्यादिति ॥३७॥ गङ्गाधरः-एष खल्वसात्म्येन्द्रियार्थयोगजो व्याधिः किं शारीरो मानसो वेत्यत आह-मिथ्येत्यादि । शब्दादीनां मिथ्यायोगातियोगायोगहीनयोगेभ्यो यो व्याधिर्जायते स ऐन्द्रियकव्याधिः शारीर एव। शरीरं हि चेतनाधिष्ठानभूतं पञ्चमहाभूतविकारसमुदायात्मकं, न विह गौतमोक्तं चेष्टेन्द्रियार्थाश्रयशरीरं विवक्षितं, तत्र पृथगिन्द्रियार्थयोग्रहणात् ।। ननु ज्ञातव्या दुःखहेनव इति यदुक्तं तत् किं सुखदुःखोभयरूपवेदनाहेतव इत्यत आह-वेदनानामित्यादि। अशातानामसुखानां वेदनानामित्येते हेतवः स्मृताः दिभिरिति विषमादानमिति सम्बन्धः। ओकसात्म्यादिवैषम्ये राशिदोषवर्जप्रकृत्यादिसप्तकदोषा ग्रहीतव्याः। त्रिविध इति अयोगातियोगमिथ्यायोगरूपः । असात्म्यत्वं दर्शयति-असात्म्यमित्यादि। सहेति मिलितं शरीरेण। आत्मताम् अविकृतरूपतां न याति । एतेन, यडुपयुक्त प्राकृतरूपोपघातकं भवति, तदसात्म्यमिति । इत्थमसात्म्यार्थजस्य व्याधेरिन्द्रियद्वारमूतत्वेन्द्रियकत्वं दर्शयन्नाह-मिथ्येत्यादि। हीनयोगेनेह अयोगो ग्राह्यः । एन्द्रियक इति इन्द्रियद्वारभूतः । दुखरूपवेदनाहेतु प्रपच्च्य उक्तमुपसंहरति-वेदनानामित्यादि। असात्म्यानामिति दुःखानाम् । अथ सुखरूपवेदनाहेतुः क इत्याह-सुखेत्यादि । समयोग इति कालबुद्धीन्द्रियार्थानां सम्यगयोगः । सुदुर्लभ इति कालादिसम्यग्योगस्य विरहत्वेन सुदुल मत्वात्। प्रायो हि कालादीनां मध्ये * असात्म्यानाम् इति वा पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy