________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४२
चरक-संहिता। कतिधापुरुषीयं शारीरम् न हि कर्म महत् किञ्चित् फलं यस्य न भुज्यते । क्रियानाः कर्मजा रोगाः प्रशमं यान्ति तत्क्षयात् ॥ ३६॥ अत्युग्रशब्दश्रवणाच्छ्रवणात् सर्वशो न च ।
शब्दानाञ्चातिहीनानां भवन्ति श्रवणाजड़ाः ॥ '. परुषोद्भीषणाशस्ताप्रियव्यसनसूचकैः ।
शब्दैः श्रवणसंयोगो मिथ्यायोगः स उच्यते ॥ न तु प्रशापराध इति । ननु ततो यदि रोगो न स्यात् तदा न कारणं भवखित्यत आह-न हीत्यादि। हि यस्मात् । न खल्वेवंभूतं किश्चित् महत् कर्म विद्यते यस्य कर्मणः फलं न भुज्यते। सर्वकर्मसंन्यासेऽपि फलं ब्रह्मलोकप्राप्तिः। "ब्रह्माणं कर्मसंन्यासादवैराग्यात् प्रकृतेः परम् । ज्ञानात् कैवल्यमाप्नोति” इति योगाभ्यास जातशानस्य फलमप्यस्तीति तत्त्वमिति । तहि चैतत्कर्मजव्याधिवत् पौर्वदहिककर्मजो व्याधिः किं साध्यासाध्यभावे तुल्य इत्यत आह-क्रियाना इत्यादि। पौर्वदेहिककर्मजा रोगाः क्रियानास्तत्तदव्याध्युक्तक्रियाभिने शाम्यन्ति । तर्हि कियसाध्या इत्यत आह ---प्रशमं यान्ति तत्क्षयात् । तत्कारणभूतकर्मक्षयात् ते कर्मजा रोगाः प्रशमं यान्तीति कालकम्मेणां सम्प्राप्तिदेशिता॥३४-३६॥ - गङ्गाधरः-अथासात्म्यागमश्चेति यो रोगहेतुरुक्तस्तं दशयति-अत्युग्रशब्दश्रवणादित्यादि। धीधृतिस्मृतिविभ्रशाद् यद्यपि अत्युग्रशब्दश्रवणादीनि कुर्वन्ति प्रज्ञापराधजानि तथापि मेघादीनामत्युग्रशब्दश्रवणादीनि प्रज्ञापराधव्यतिरेकादपि भवन्तीति पृथगुक्तानि। ननु पूर्वमुक्तम् इन्द्रियार्थानाम् अयोगोऽतियोगो मिथ्यायोगश्चेति त्रिवियो हेतुसंग्रहः, इह तु शब्दादीनामत्युग्रादीनां श्रवणादिरतियोगोऽथ सर्वशो न च श्रवणादि, अतिहीनशब्दादिश्रवणादि, तथा मिथ्यायोगश्चेति चतुविधो हेतुरुक्त इति विरुध्यत
चक्रपाणिः-कर्मणः फलसम्बन्धिनियममाह-- न हीत्यादि । 'महत्' इति विशेषणेन किन्चित महत् कर्म प्रायश्चित्तबाधनीयफलं ददात्यपि फलमिति दर्शयति। कर्मजानामचिकित्सत्वमाह- क्रियाना इत्यादि। तत्क्षयादिति कर्मक्षयात्। कर्मक्षयश्च कर्मफलोपभोगादेव भवति ॥ ३६॥
चक्रपाणिः- क्रमागतमसात्म्येन्द्रियार्थसंयोगं विवृणोति- अत्युग्रेत्यादि । सर्वशो न चेति
For Private and Personal Use Only