________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः . शारीरस्थानम्।
१८४१ कालस्य परिणामेन जरामृत्यनिमित्तजाः । रोगाः स्वाभाविका दृष्टाः स्वभावो निष्प्रतिक्रियः ॥ निर्दिष्टं दैवशब्देन कर्म यत् पोर्ध्वदेहिकम् ।
हेतुस्तदपि कालेन रोगाणामुपलभ्यते ॥ ३५ ॥ चिकित्स्या भवन्ति। इति कालशब्देन सोऽपि कालो गृह्यते। ये पुनर्जरामृत्व्यादयोऽप्यनिमित्तनाः स्वाभाविका रोगा दृष्टास्तेऽपि कालस्य परिणामेन भवन्तीति कालजा उच्यन्ते। यौवनान्ते कालपरिणामेन जरा भाति, जरान्ते कालपरिणामेन मृत्युर्भवति। क्रमेणाहारकालपरिणामे मध्याहादिषु क्षुधा भाति, कालपरिणामे च निद्रा भवतीत्येवमादि। स्वभावो हि निष्पतिक्रियः । स्वाभाविकव्याधेः प्रतिक्रिया नास्ति । ननु पूर्वाध्याये कालस्य त्रिविधयोग एव कालसम्प्राप्तिरुक्ता पुनरिह कर्मणां सम्माप्तिः, किं त्रिविधकारणादतिरिक्त कारणमित्याशङ्कयाह-निर्दिष्टमित्यादि। देवशब्देन पौव्वदेहिकं कर्मजफलरूपं धर्माधर्माख्यं कर्म यनिर्दिष्टं तदिह कर्मशब्देनोच्यते। तेनेह जन्मनि यत् कर्म तत् प्रज्ञापराध प्रज्ञापराधाख्यं पूर्वदेहेऽपि प्रज्ञापराधादेव अधर्म्यकर्म यद्यपि तथापि तत् कर्मफलं कालेन परिणतं रोगाणां हेतुरुपलभ्यते। न तु सद्यः। इह देहे कृतं कर्म प्रज्ञापराधाद् यद् यद् भवति तदिहैव जन्मनि यत् फलति तत् प्रज्ञापराधजवात प्रज्ञापराधाख्यं, यत परलोके फलिष्यति तत् परजन्मनि कालान्तरे परिणामात् फलतीति काल एवाभिधीयते
चक्रपाणिः-स्वाभाविकानपि कालपरिणामव्यग्यमानतया इह कालजेऽवरोधयितुमाहकालस्येत्यादि। जरामृत्युरूपानिमित्ताजाता जरामृत्युनिमित्तजाः, 'मृत्यु'शब्नेह युगानुरूपायुःपर्यवसानभवः कालमृत्युग्राह्य । किंवा, जरामृत्योर्यनिमित्तम्, तस्माजाता जरामृत्युनिमित्तजाः, जरामृत्युनिमित्तञ्च प्राणिनां साधारणं देहनिवर्तक भूतस्वभावोऽदृष्टन्च । अथ स्वाभाविकानां का चिकित्सेत्याह-स्वभावो निष्प्रतिक्रिय इति। साधारणचिकित्सया रसायनवर्ज जरा न प्रतिक्रियते, रसायनेन तु प्रतिक्रियत एव । तेन, “अस्य प्रयोगाच्च्यवनः सुवृद्धो. ऽभूत् पुनयुवा" इत्यादिरसायनप्रयोगेण समं न विरोधः। किंवा, स्वाभाविका जरादयो रसायन. जनितप्रकर्षाहत्तरकालं पुनरवश्यं भवन्तीति निष्प्रतिक्रियत्वेनोक्ताः। सम्प्रति कर्मसम्प्राप्तिकृतमपि गदं कालविशेषग्यज्यमानतया दर्शयन्नाह-निद्दिष्टमित्यादि। कालेनेति पच्यमानतालक्षितेन कालेन युक्तं सत् कर्म कारणं भवतीत्यर्थः ॥ ३५ ॥
* जरामृत्युनिमित्तजाः इति चक्रस्तः पाठः ।
For Private and Personal Use Only