________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४०
चरक-संहिता। कतिधापुरुषीयं शारीरम् पूर्वमध्यापराणाश्च रात्रता यामास्त्रयश्च ये।। येषु कालेषु नियता ये रोगास्ते च कालजाः॥ अन्येदुरष्को द्वाग्राही तृतीयकचतुर्थको। स्वे स्वे काले प्रवर्त्तन्ते काले होषां बलागमः॥ एते चान्ये च ये केचित् कालजा विविधा गदाः। अनागते चिकित्स्यास्ते बलकालौ विजानता ॥ ३४॥
रम्भान्नस्य पच्यमानस्य या कालाकालस्थितिः, पूर्वाह्नः कफस्य मध्याह्नः पित्तस्यापराह्नः पवनस्य तथा रात्र्याः पूर्वाद्धयामादृद्ध माक् च शेषाद्धयामात् ये यामास्त्रयः कफपित्तवातानां काला उक्ताः, तत्र येषु कालेषु ये दोषास्तेषु कालेषु तज्जा ये रोगा नियतास्ते रोगाः कालजाः, एवमन्येदुरष्कादयो ये रोगाः स्वे स्वे काले प्रवर्तन्ते वेगागमश्चैपामन्येदुरष्कादीनां स्वे स्वे काले भवतीति कालसम्प्राप्तिाधिहेतुः, एते चान्ये च ये केचिद्विविधाः कालजा गदास्तेषां बलकालो विजानता भिपजा खल्वनागते भविष्यति वेगागमकाले पूर्व ते
अनस्य कालः, तथा अन्नस्याकालोऽजीर्णाद्यवस्थालक्षितः। प्रजीर्णञ्च विदग्धम् । रात्रेः यामास्त्रयश्च य इति, त्रयो भागाः पूर्वरात्रमध्यरात्रापररात्ररूपाः, न तु यामः प्रहर इति ज्ञेयम् । अन्यत्रापि च भागत्रये यामविभागं कृत्वा अभिधानशास्त्रे त्रियामा निशा अभिधीयते। तेषु कालेग्विति जीर्णान्नकालादिपु जीर्णे अपराह्न रात्रिशेपे च वातिका गदाः, भुक्तमात्रे पूर्वाह्न पूर्व रात्रे च कफजा गदाः, प्रजीर्ण मध्याह्न मध्यरात्रे च पित्तजा गदा नियता रोगा ज्ञेयाः। अन्नाकाले चाजीर्णलक्षणे भोजनात् त्रयो दोषा भवन्तीति ज्ञेयम्। किंवा जीर्णभुक्तप्रजीर्णान्नकाला इति च्छेदः, ते च जीर्णाद्यवस्थायुक्तान्नकालाः पूर्ववदेव ज्ञेयाः, तथा 'कालस्थितिश्च या' इति योजना, 'कालस्थिति'शब्देन बाल्यादिवयस्वैविध्यमुच्यते। तत्र बाल्ये श्लैष्मिकाः, यौवने पैत्तिकाः, वाळक्ये वातिका गदा वर्द्धन्त इति शेयम् । विषमज्वरानपि कालविशेषप्रवर्त्तमानस्धेन कालजे दर्शयन्नाह--अन्येदुधष्क इत्यादि। यहग्राही चतुर्थकविपर्ययः। वक्ष्यति हि--- 'विषमज्वर एवान्यश्चतुर्थकविपर्ययः। सध्येऽहनी ज्वरयत्यादावन्ते च मुन्चति ॥" कथं स्वकीय एव काले प्रवर्तनमित्याह-काले हेवपां बलागम इति, उक्त एव काले यस्माद् बलवन्तो भवन्ति, तस्मात् तत्रैव सञ्जातबलाः सन्तो व्यज्यन्त इत्यर्थः ।
एतेषां चिकित्साकालक्रममाह--एते चेत्यादि । 'अन्ये च' इत्यनेनान्येऽपि कालविशेषप्रादु. र्भाविणः शोथकुष्ठादीन् सूचयति ॥ ३४ ॥
For Private and Personal Use Only