________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
शारीरस्थानम् ।
१८३६ यच्चान्यदीदृशं कर्म रजोमोहसमुत्थितम् । प्रज्ञापराधं तं शिष्टा ब्रुवते व्याधिकारणम्॥ बुद्धया विषमविज्ञानं विषमञ्च प्रवर्तनम् । प्रज्ञापराधं जानीयान्मनसो गोचरं हि तत् ॥ ३३॥ निर्दिष्टा कालसम्प्राप्तिाधीनां हेतुसंग्रहे । चयप्रकोपप्रशमाः पित्तादीनां यथा पुरा ॥ मिथ्यातिहीनलिङ्गाश्च वर्षान्ता रोगहेतवः ।
जीर्णभुक्तप्रजीर्णान्न-कालाकाल स्थितिश्च या ॥ अनुक्तमुपसंहति-यच्चान्यदित्यादि। बुद्धया विषमविज्ञानमिति धीधुतिस्मृतिभिः बुद्धिभिः। एतं यावन्तं प्रज्ञापराधं तन्मनसो गोचरं विषयं जानीयात् इति धीधृतिस्मृतिविभ्र'शो बुद्धेरयोगातियोगमिथ्यायोगरूप उदाहृतः ॥३३॥
गङ्गाधरः-अथ क्रमिकखात् सम्प्राप्तिः कालकर्मणामुदाहियते-निद्दिष्टा कालसम्पातिरित्यादि। दीर्घजीवितीयाध्याये व्याधीनां हेतुसंग्रहे कालबुद्धीन्द्रियार्थानामिति वचने कालसम्माप्तिः कालस्यायोगातियोगमिथ्यायोगरूपा निद्दिष्टा, व्याधिहेतुरेकस्तत्र तस्य विवरणं पित्तादीनां चयप्रकोपप्रशमा घादिषु यथा निर्दिष्टाः, तिस्रषणीये च मिथ्यायोगातियोगहीनयोगलिङ्गा वर्षान्ताः काला रोगहेतवो निर्दिष्टाः, जीर्णान्नस्य कालाकाल स्थिति, भुक्तानस्य भुक्तमात्रानस्य या कालाकालस्थितिः, प्रजीर्णान्नस्य जरणा
क्लिष्टमिति निन्दितम्। संक्षेपेण प्रज्ञापराधं दर्शयन्नाह-बुद्धेवत्यादि । विषममित्यनुचितम्, विषम विज्ञानं स्वरूपत एव प्रज्ञापराधः। विषमप्रवर्तनञ्च 'प्रज्ञापराध'शब्देनोच्यते। मनसो गोचर तदिति, तद् विपमप्रवर्तनं विषमज्ञानञ्च मनःकार्य प्रज्ञाविषयत्वेन मनसो गोचरमित्यर्थः । विषमप्रवर्तनञ्च मनसो गोचरस्वेन उपचारादुक्तम्, विसदृशमनोविषयज्ञानाद् विषमवाग्देहप्रवृत्ति रूपं भवति ॥ ३३ ॥
चक्रपाणिः--व्याधीनां कालसम्प्राप्तिमाह निर्दिष्टेत्यादि। व्याधिसंग्रह इति कियन्तःशिरसीये "चयप्रकोपप्रशमाः पित्तादीनां यथाक्रमम्। भवन्त्येकैकशः षट्सु कालेष्वभ्रागमादिषु" ॥ इत्यनेन यथा हुपदाहरणेन च। तेन कालसम्प्राप्तिाधीनां चयप्रकोपप्रशमाः पित्तादीनां पुरा निर्दिष्टा इति योज्यम्। उदाहरणान्तरमाह मिथ्येत्यादि। जीर्णादौ जीर्णाद्यवस्थात्रयविशिष्टस्य
For Private and Personal Use Only