________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८३८
चरक-संहिता। कतिधापुरुषीयं शारीरम् उदीरणं गतिमतामुदीर्णानाञ्च निग्रहः । सेवनं साहसानाश्च नारीणाञ्चातिसेवनम् ॥ कार्मकालातिपातश्च मिथ्यारम्भश्च कर्मणाम् । विनयाचारलोपश्च पूज्यानाश्चाभिधर्षणम् ॥ ज्ञातानां स्वयमर्थानामहितानां निषेवणम् । परमोन्मादिकानाञ्च प्रत्ययानां निषेवणम् ॥ अकालादेशसञ्चारो मैत्री संक्लिष्टकर्मभिः । इन्द्रियोपक्रमोक्तरय सदवृत्तस्य च वर्जनम् ॥ ईामानभयक्रोध-लोभमोहमदभ्रमाः। तज्जं वा कर्म यत् क्लिष्टं क्लिष्टं यद् देहकर्म च ॥
धीधृतिस्मृतिविभ्रष्टः पुरुषो यदशुभं कर्म कुरुते वाङ्मनःशरीरमत्तिं कुरुते, तं प्रज्ञापराधं विद्यात् सर्वदोषप्रकोपणमिति। एवं धीधृतिस्मृतिविभ्रष्टश्च सन् यत् कालार्थानामयोगातियोगमिथ्यायोगयुक्तं कर्म कुरुते तमपि प्रज्ञापराधमाहउदीरणमित्यादि । गतिमतां मूत्रपुरीषादीनामप्रवृत्तानामुदीरणं प्रवर्तनम् । इति कर्मकालातियोगः। तेषामेवोदीर्णानां प्रवर्तमानानां निग्रहोऽप्रवर्तनं कम्मेकालायोगः। साहसादीनां सेवनमपि कम्मेकालातियोगः। एवं यदयत्कर्मणो यः कालस्तस्यातिपातोऽतिक्रमः। तथा कम्मणां मिथ्यारम्भोऽयथाविधिनारम्भः । विनयाचारलोपश्च पूज्यानाञ्चाभिषेणम्। स्वयं ज्ञातानामर्थानामहितानां सेवनम् । औन्मादिकानां प्रत्ययानामुन्मादबुद्धिकराणां हेतूनां सेवनम् । अकाले चादेशे च सञ्चारः । संक्लिष्टकर्मभिमंत्री मित्रताकरणम् । इन्द्रियोपक्रमणीयोक्तसदवृत्तस्य वर्जनम्। ईर्ष्यादयः ईर्ष्यादिजञ्च यत् क्लिष्टं कर्म न खक्लिष्टं, यदुक्तं हेनावीष्युः फले नेष्युरित्यादिकमक्लिष्टम् । देहकर्म च यत् क्लिष्टम् ।
शब्देन वातादयो रजस्तमसी च गृह्यन्ते । कर्मकालातिपातश्चिकित्साकालातिवर्तनम्। मिथ्यारम्भ इति मिथ्यायोगः, अयोगातियोगमिथ्यायोगरूपः। विनयाचारलोपेनैव प्राप्तमपि यत् पुनः पूज्यानामभि. धर्षणायभिधीयते, तद्विशेषण प्रकोपख्यापनार्थमुदाहरणार्थञ्च। संक्लिष्टकम्र्मभिारति पतितः।
For Private and Personal Use Only