________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम् ।
१८३७ तत्त्वज्ञाने स्मृतिर्यस्य रजोमोहावृतात्मनः । भ्रश्यते स स्मृतिभ्रंशः स्मर्त्तव्यं हि स्मृतौ स्थितम् ॥३२॥ धीधतिस्मृतिविभ्रष्टः कर्म यत् कुरुतेशुभम्। .
प्रज्ञापराधं तं विद्यात् सर्वदोषप्रकोपणम् ॥ विषयेषु प्रवलं चिन्त्यसङ्कल्प्यादिषु बलवच्चित्तमहितादर्थात् कर्मणः कालादर्थाच नियन्तु निग्रहीतु न पुंसा शक्यते। इति विषयप्रवलचित्तनिग्रहासामथ्य धृतिभ्रशो धृतेरयोगातियोगमिथ्यायोगरूपः। का पुनः धृतिरित्यत आह-धृतिहि नियमात्मिकेति। विषयप्रबलचित्तनिग्रहकारिणी शक्तिधृतिः। धीभ्र शाद्विषमकम्मे णि प्रवत्तमानं चित्तं धृत्या नियम्यते । धृतिभ्रंशात् तु विषमकम्मैणीच्छा भवति । यत आपाततः सुखं स्याद् यतो दुःखं स्यात् तत्र न द्वेपो भवतीत्येवं तृष्णा भवति। तया तृष्णया विषमवाङ्मनःशरीरप्रत्तिर्भवति ततो व्याधिः स्यात् । धृत्या तन्मनोनिग्रहे विषमप्रवृत्त्यभावादारोग्यं सुखश्च भवति। अथ कः पुनः स्मृतिभ्रंशः का च स्मृतिरित्यत आह-तत्त्वज्ञान इत्यादि। यस्य रजोमोहातात्मनो रजस्तमोऽभिभूतचेतसः पुरुषस्य तत्त्वज्ञाने तस्मिंस्तदित्येवं यथार्थज्ञाने स्मृतिभ्र श्यते, स स्मृतिभ्रशः, स्मृत्ययोगातियोगमिथ्यायोगरूपः। कुत इत्यत आह-स्मत्तव्यं हि स्मृतौ स्थितमिति। यत्किञ्चित् स्मत्तव्यं स्मृतिविषयं तत् स्मृतावभ्रष्टायां स्थितमित्येवं स्मृतिसमयोगाद धीधृतिभ्रष्टः कर्मसु विषमेषु प्रवत्तमानो यथार्थ स्मृखा ततो निवत्तते, नाशुभं कम्भं करोति। स्मृतिभ्रशे तत्र तथालेन शानाभावेऽयथाथसुख मिच्छति यथार्थसुखं द्वेष्टीत्येवं तृष्णा भवति, तया तृष्णया विषमवाङ्मनःशरीरप्रवृत्तिर्भवति, ततो व्याधिर्भवति। स्मृत्या तत्र याथार्थ्यस्मरणाद् अयथार्थाकरणादारोग्यं सुखश्च भवतीति ॥ ३२॥
गङ्गाधरः-इत्येवं धीधृतिस्मृतिभ्रशाद् यद्भवति तदाह-धीधृतीत्यादि । धृतिहि नियमात्मिकेति, यस्मात् धृतिरकार्यप्रसक्तं मनो निवर्तयति स्वरूपेण, तस्मान्मनोनियमनं कर्तुं मशक्ता तिः स्वकर्मभ्रष्टा भवतीत्यर्थः ।
स्मृतिभ्रंशं विवेचयति-तत्त्वेत्यादि । तत्त्वज्ञाने स्मृतिर्यस्य भ्रश्यत इति योजना । 'स्मर्त्तव्यं हि स्मृतौ स्थितम्' इति स्मर्त्तव्यत्वेन सम्मतस्यार्थस्य स्मरणं प्रशस्तस्मृतिधर्मः। तत्र तत्त्वज्ञानस्य शिष्टानां स्मर्तव्यत्वेन स्मर्त्तव्यस्य यदस्मरणम्, तत् स्मृत्यपराधाद भवतीत्यर्थः ॥ ३२ ॥ - चक्रपाणिः- एवं बुयादिभ्रंशत्रयरूपप्रज्ञापराधत्वेन दर्शयन्नाह-धीत्यादि। 'सर्वदोष'
For Private and Personal Use Only