________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८३६
चरक-संहिता। कतिधापुरुषीयं शारीरम् विषमाभिनिवेशो यो नित्यानित्ये हिताहिते। ज्ञेयः स बुद्धिविभ्रंशः समं बुद्धिर्हि पश्यति ॥ विषयप्रवलं चित्तं धृतिभ्रशान्न शक्यते ।
नियन्तुमहितादाद धृतिर्हि नियमात्मिका ॥ हेनवः। वक्ष्यते ह्यत्रैव मुखहेतुर्मतस्त्वेकः समयोगः सुदुर्लभ इति। ननु कोधीभ्रश इत्यत आह-विषमेत्यादि। हिताहिते नित्यानित्ये च कर्मणि काले चार्थे च बुद्धेयो विषमाभिनिवेशोऽयोगातियोगमिथ्यायोगरूपः स बुद्धिविभ्र शो शेयः। अनेन बुद्धिभ्रंशेन यथाविहितकर्मण्ययथावज शानं भवति तेन धम्म विरुद्धमुग्वजनकं भावमिच्छति धर्म्यकर्मजसुखजनकं भावं द्वष्टीत्येवं तृष्णा भवति। तया तृष्णया विषमवाङ्मनःशरीरप्रत्तिर्भवति ततो व्याधिः भवतीत्युक्तस्तिस्रपणीये कम्म वाङ्मनःशरीरप्रवृत्तिरित्यादिना। साध्वी बुद्धिः खलु हि यस्मात् समं पश्यति हिताहिते नित्यानित्ये कर्मणि काले चार्थे च समयोगस्तस्मिंस्तदेवमेव पश्यति तद् यथाथदर्शिनी बुद्धिः। अनेन बुद्धिसमयोगेन यथाविहितकम्मे णि यथावज ज्ञानं भवति। तेन धम्म्यकम्मेजसुखमिच्छ त्यधर्म्यकर्मजसुखं द्वष्टीत्येवं तृष्णा भवति, तया तृष्णया धाणि कर्माणि कर्त्त समा वाङ्मनःशरीरप्रत्तिर्भवति। तत आरोग्यं सुखञ्चेह परत्र च भवति । काले चार्थे च धीभ्रशो दर्शयिष्यते परिणामासात्म्येन्द्रियार्थसंयोगश्चेति।
अथ का धृतिः कश्च धृतिभ्रश इत्यत आह-विषयप्रबलमित्यादि । स्वयमेवोक्तम् यत्-"प्रज्ञापराधात् सम्भूते व्याधौ कर्मज आत्मनः" इत्यादि, तथा जनपदोदध्वंसनीये च विमाने पुनरुक्तम्- "वाय्वादीनाञ्च वैगुण्यमुत्पद्यते, तस्य मूलमधर्मस्तन्मूलं वा पूर्वकृतं कर्म, तयोर्योनिः प्रज्ञापराध एव" इति। तस्मादिह 'सम्प्राप्तिः कालकर्मणाम्' इत्यनेन कालजन्या गदा नोच्यन्ते किन्तु कालव्यक्ताः । ____धीविभ्रशं विवृणोति-विषमेत्यादि। विषमाभिनिवेशोऽयथाभूतत्वेनाध्यवसानम्-नित्ये नित्यमिति । एवं हितेऽहितमहिते च हितमिति या बुद्धिः, स बुद्धिभ्रंशः। अथ कथमयं बुद्रिविभ्रंशशब्देनोच्यत इत्याह--"समं बुद्धिर्हि पश्यति" उचिता बुद्धिः समं यथाभूतं यस्मात् पश्यति, तस्मादसमदर्शनं बुद्धिविभ्रंश उचित एवेत्यर्थः।
धृतिभ्रंशमाह-विषयेत्यादि । विषयप्रवणं विषयेषु सङ्गतम्। नियन्तुमिति व्यावर्त्तयितुम् । * विषयप्रवणमिति बहुषु ग्रन्थेषु पाठः ।
For Private and Personal Use Only