________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पम अध्यायः
शारीरस्थानम् ।
१८३५ धीधुतिस्मृतिविभ्रशः सम्प्राप्तिः कालकर्मणाम् ।
असात्म्यार्थागमश्चेति ज्ञातव्या दुःखहेतवः ॥ तेभ्योऽर्थभ्यो निवत्तते तं पुरुषं त्यक्तकणिं क्रियाया अनारम्भात् कम्फलैः सह संयोगाभावात् दुःखं सुखदुःखयोगात् दुःखं पुनर्जन्म नोपतिष्ठते इति ॥३१॥
गङ्गाधरः-अथ भोः पूर्वमुक्त कालबुद्धीन्द्रियार्थानां योगो मिथ्या न चाति च। द्वयाश्रयाणां व्याधीनां त्रिविधो हेतुसंग्रह इति ; तद्विवरणश्च तिस्रपणीये प्रोक्तम्, इह तु दुःखदुःखाश्रयप्रदो हेतुरुपधा तृष्णा प्रोक्तस्तर्हि पृच्छामि, कारणं वेदनानां किमिति ? तत्रोत्तरं विस्तरेणोक्तमनुवादरूपं नातो भवति पुनरुक्तमिति। तद् यथा-धीधृतीत्यादि। पूर्व बुद्धरयोगातियोगमिथ्यायोगभेदेन यस्त्रिविधो योग उक्तस्तत्र बुद्धिस्त्रिधा धीधृतिस्मृतिभेदेन, स च त्रिविधो योगो विभ्रश इति धीधृतिस्मृतिविभ्रश एकः। सम्माप्तिः कालकर्मणामिति। पूर्व कालस्यायोगातियोगमिथ्यायोगभेदात् त्रिविधः कालस्य यो योग उक्तः, तत्र कालशब्देन शीतोष्णवर्षलक्षणः कालविशेषः कालविशेष परिणतभावश्च विवक्षितः स चात्र व्यज्यते कालकर्मणां सम्प्राप्तिः अयोगातियोगमिथ्यायोगरूपोऽसम्यगयोगः। इति द्वितीयः। असात्म्यार्थागमश्चेति। असात्म्येन्द्रियार्थसंयोग इन्द्रियार्थायोगातियोगमिथ्यायोगरूपोऽसम्यगिन्द्रियायोगः इति त्रयो दुःख हेतवो ज्ञातव्या न तु सुखदुःखोभयात्मकदुःखकीटः। सदातुर इति सदा संसार दुःखगृहीतः। अनारम्भादिति रागद्वेषपूर्वकारम्भविरहात् । असंयोगादिति आरम्भशून्यत्वेन धर्माधर्मोच्छेदकृतात् शरीरासंयोगात् । शरीराभावे च निराश्रयमकारणकं दुःखं न भवतीति भावः ॥३१॥
चक्रपाणिः-"कारणं वेदनानां किम्" इत्यस्योत्तरमाह-धीतीत्यादि । अयञ्चार्थः प्रकरणागतत्वाच्यमानो न पुनरुक्ततामावहतीति। धीतिस्मृतयः पुनः प्रज्ञाभेदाः । एते च शिष्यव्युत्पत्त्यर्थ प्रज्ञाभेदस्वेनान्यथा व्युत्पादयता इहोच्यन्ते। संप्राप्तिः कालकामगामिति कालस्य संप्राप्तिस्तथा कर्मणश्च सम्प्राप्तिः । कर्मसम्प्राप्तिः पच्यमानकर्मयोगः । काइसम्प्राप्तिग्रहणेन चेह ये कालव्यक्तास्ते गृह्यन्ते, नावश्यं कालजन्याः ; यतः स्वाभाविकानपि कालजन्यान् तथा तृतीयकादीनप्यासात्म्येन्द्रियार्थादिजन्यान् कालजत्वेनैवेहाभिधास्यति । कर्मजास्तु प्रज्ञापराधजन्या एवेह कर्मजन्यत्वेन विशेषण शिष्यव्युत्पत्तिनिमित्तं पृथक क्रियन्ते, कालव्यक्तत्वेन कर्मजा इह कालसम्प्राप्तिजन्येष्वेव रोद्धव्याः । प्रज्ञापराधावरोधाश्च यथा कर्मजानाम्, तथा प्रथमाध्याय एवोक्तम् । किञ्चाचाय॑णोन्मादनिदाने
For Private and Personal Use Only