________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८३४
चरक-संहिता। कतिधापुरुषीयं शारीरम् उपधा हि परो हेतुदु:खदुःखाश्रयप्रदः। त्यागः सर्वोपधानाञ्च सर्वदुःखव्यपोहकः॥ कोषकारो यथा हंाशनुपादत्ते वधप्रदान् । उपादत्ते तथार्थेभ्यस्तृष्णामज्ञः सदातुरः॥ यस्त्वग्निकल्यानर्थान् ज्ञो ज्ञात्वा तेभ्यो निवर्त्तते।
अनारम्भादसंयोगात् तं दुःखं नोपतिष्ठते ॥ ३१ ॥ त्रिकालवेदनाचिकित्सोक्ता। सा तु नैष्ठिकी चिकित्सा या चिकित्सा उपधां विना। इच्छाद्वेषात्मिका हि तृष्णैवोपाधिः । तदिच्छाव परूपोपाधिविनाशिनी या चिकित्सा सा नैष्ठिकी निष्ठां निश्चित्य स्थित्यर्थमपुनर्भावार्थ या सा नैष्ठिकी मोक्षसाधिनी ॥३०॥
गङ्गाधरः-कस्मात् ? उपधा हीत्यादि। हि यस्मात् । दुःखदुःखाश्रयप्रदः परो हेतुरुपधा। इहामुत्र सुखानां नश्वरवाद विविधदुःखहेतुपुनर्जन्मकारणखाच ज्ञानवद्भिदुःखपक्षे प्रक्षेपात् साणि सुखान्यपि दुःखान्युच्यन्ते। तेन सुखदुःखोभयात्मकं दुःखं तदुभयात्मकदुःखाश्रयशरीरग्रहणश्च प्रददाति यः परो हेतुः सा खलु उपधैव इच्छाद्वेषात्मिका तृष्णा। अत एव सोपधानां निखिलेच्छाद्वषाणां त्यागः सर्वदुःखानां शारीरमानससुखदुःखानां व्यपोहकः नाशकः। उपधा कथं दुःखदुःखाश्रयं प्रददातीत्यत आह-कोषकार इत्यादि।यथा कोषकारः कीटः स्वस्यैव वधप्रदानशून् सूत्राण्युपादत्ते तथैवाशः पुरुषः स्वस्यैव वधप्रदां तृष्णामिच्छाद्वेषरूपामर्थेभ्य उपादत्ते सदातुरश्च भवति। कं पुनदुखं नोपतिष्ठत इत्यत आह---यस्वित्यादि। यस्तु ज्ञः पुरुषोऽग्निकल्पानर्थान् शाखा विषमहेतोश्च विपमाः। एतचिकित्साप्राभृतीयेऽध्याये प्रपञ्चितमेव । चिकित्साप्रस्तावेन सकल. दुःखहारिणी चिकित्सां मोक्षफलामाह-चिकित्सा सेत्यादि। निष्टा अत्यन्तदुःखमोक्षरूपा, तदर्थं मृता नैष्टिकी । विनोपधामिति तृष्णां विना, तृष्णाशून्या प्रवृत्तिः मोक्षफला भवतीत्यर्थः ॥ २८-३०
चक्रपाणिः-परो हेतुरिति मूलकारणम् । दुःखरूपेणैव दुःखाश्रयः शरीरम् । भोगतृष्णया हि प्रवर्त्तमानो धर्माधर्मान् दुःखशरीरोत्पादकानुपादत्ते। सर्वीपधात्यागात् तु न रागढ पाभ्यां क्वचित् प्रवर्तते। अप्रवर्त्तमानश्च न धर्माधर्मानुपादत्ते, एवमनागतधर्माधर्मोपरमः, उपात्त. धर्माधर्मयोस्तु अनुरागशून्यस्योपभोगादेव क्षयः । तेन, सर्वथा कर्मक्षयात् दुःखशरीराभाव इति भावः। अत्रैव तृष्णायां दुःखकारणत्वे दृष्टान्तमाह-कोपकार इत्यादि। कोषकारः स्वनामप्रसिद्धः
For Private and Personal Use Only