________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८३३
१म अध्यायः
शारीरस्थानम् । पारम्पर्य्यानुबन्धस्तु दुःखानां विनिवर्त्तते। सुखहेतृपचारेण सुखञ्चापि प्रवर्तते ॥ न समा यान्ति वैषम्यं विषमाः समतां न च । हेतुभिः सदृशा नित्यं जायन्ते देहधातवः ॥ युक्तिमेतां पुरस्कृत्य त्रिकालां वेदनां भिषक् ।
हन्तीत्युक्ता चिकित्सा सा नैष्ठिकी या विनोपधाम् ॥ ३०॥ दृष्ट्वा प्रादुर्भविष्यतां विकाराणां या क्रिया क्रियते सा क्रिया चिकित्साऽनागतां भविष्यन्तीं वेदनां हन्तीति ॥२९॥ __गङ्गाधरः--अथ वर्तमानवेदनाचिकित्सायां युक्तिं दर्शयति--पारम्पर्यत्यादि। दुःखानां वर्तमानानां व्याधीनां शीघ्रगखस्वभावेऽपि भावानां प्रतिक्षणं भने पूज्वेभावस्य हेतवो यादृशाः समा विषमा वा त उत्तरावस्थामपि पूर्वभावेगेवारभमाणा आरम्भका नश्यन्तीति पूर्वभावस्य पारम्प-नुबन्धो विनिवर्त्तते मुखहेतूपचारेण सुखश्चानुवर्तते विषमपूर्वभाव हेतुनाशात् समभावेन पूर्वभावोत्पादनाद वर्तमानानां वेदनानां चिकित्सा क्रियते । कुत इत्यत आह-न समा इत्यादि। देहधातवो नित्यं हेतुभिः सदृशा जायन्ते। न समा देहधातवो वैषम्यं यान्ति समहेतुभिः। विपमा देहधातवश्च विषमहेतुभिर्न समतां यान्ति। तस्माद्धातुवैषम्ये साम्यहेतुक्रिया क्रियते इति । युक्तिमित्यादि। एतामुक्तां युक्तिं पुरस्कृत्य भिपक त्रिकालां वेदनां हन्तीति प्रतिकर्म चिकिःसा। आश्रय इति शरीरं । पूर्वरूपमित्यादिना अनागतवेदनाचिकित्सा समर्थयते । पूर्वरूपं यद्यपि भविष्यतामेव भवति रोगाणाम् , तथापि ‘भविष्यताम्' इति पदेन, भूतेऽपि व्याधौ यानि रूपाणि भवन्ति, तानि निराकरोति । उक्त हि-"प्राक सन्तापादपि चैनं सन्तापातमनुबध्नन्ति" इत्यनेन रोगावस्थायामपि पूर्वरूपसदभावः। एवमतीतानागतवेदना. चिकित्सा व्युत्पादिता। वर्तमानचिकित्सामपि दर्शयन् पारमार्थिक मतमाह-पारम्पयेत्यादि। पारम्प-नुबन्धः सन्तानन्यायेनानुबन्धः। दुःखानामिति रोगाणाम् । सुखहेतूपचारेण इत्यारोग्यहेतुचिकित्सासेवया। सुखमित्यारोग्यम् । एवं मन्यते यत्-चिकित्सा सुखहेतुः सेव्यते, तदा दुःखहेतुसेवाभावात् दुःखं नोत्पद्यते, उत्पन्नञ्च दुःखं रोगरूपं क्षणभङ्गित्वेन स्वयमेव नश्यति । सुख. हेतुसान्निध्यात् सुखमारोग्यमुत्पद्यते। तेन चिकित्सया अनागतं दुःखं हेतुप्रतिबन्धात् निरुध्यते सुखञ्च जन्यते इति सिद्धान्तः। एतदेवाह-न समा इत्यादि। समाश्च विषमाश्च क्षणभङ्गित्वस्वभावान्न वैषम्यावस्था साम्यावस्था वा यान्तीत्यर्थः। हेतुभिः सदृशा इति समहेतोः समाः, अथ
For Private and Personal Use Only