________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पम अध्यायः
निदानस्थानम् ।
१२४३ घन्तेि वा ज्वराभ्यागमनमभिवृद्धिर्वा ज्वरस्य, विशेषण परुषारुणवर्णत्वं नखनयनवदनमूत्रपुरीषत्वचाम् अत्यर्थं क्लृप्तीभावश्च। अनेकविधोपमाश्चलाचलाश्च वेदनास्तेषां तेषामगावयवानाम् । तद् यथा-पादयोः सुप्तता पिण्डिकयोरुद्ध ष्टनं जानुनोः केवलानाञ्च सन्धीनां विश्लेषणमूवोः सादः
ज्वराभिनित्तिरिति, धर्मान्ते वर्षासु, वाशब्दः जरणान्तादिकालविकल्पव्यवस्थायां ज्वराभ्यागमनमनुत्पन्नस्य ज्वरस्योत्पत्तिरभिद्धिा उत्पन्नस्य ज्वरस्य प्रकोपः । बलकालस्य विशेषस्य सम्प्राप्तिविशेषत्वेऽपि तत्तत्कालविशेषे जन्माभिवृद्धग्रोलिङ्गखख्यापनाय वचनमिदं बोध्यम् । विचित्रलक्षणान्तरमाहविशेषेणेत्यादि । विशेषणेति वायोः सर्वशरीरचरत्वेऽपि नखादीनां परुषारुणखमधिकमन्यत्र तु स्वल्पमिति व्याधिस्वभावात् । अत्यर्थं क्लुप्तीभावश्चेति अतिशयानुषङ्गित्वं नखनयनादीनामेव । अनेकविधोपमाः सूचीवधादिनानारूपाश्चलाचलाः क्षणिकान्यथाभावाश्च वेदनास्तेषां तेषामगावयवानाम् । ननु केषां केषा. मङ्गावयवानां किं किमुपमाश्चलाचला वेदना इत्यतस्तद्विवरीतुमाह-तद यथेत्यादि। पादयोरित्यादि । सुप्तता स्पर्शानभिज्ञता। पिण्डिकयोन्विधोमांसपिण्डयोरुद्वेष्टनं दण्डादिनेव ताड़नं, जानुनोः केवलानां कृत्स्नानां
कालोऽप्रतिनियत इत्यर्थः । एतत् सर्च वायोरनवस्थितत्वेनोपपन्नम् ; यच्च वायोजेरणान्तदिवसान्तादिषु बलवत्कार्यकर्त्त त्वं प्रोक्तम् , तदपि प्रायिकत्वेन ज्ञेयम् ; अन्यथा, एतदेवारम्भादिवैषम्यं न स्यात् ; यदि कालविशेषेषु जरणान्तादौ शरीरप्रदेशविशेषे च जङ्घादौ प्रतिनियमेन वातकोपः स्यात् , तदा शरीरप्रदेशविशेषे वातस्थाने जङ्घादौ कालविशेषे जरणान्तादौ च वातप्रकोपः प्रायिको ज्ञेयः ; एतमेव प्रायिकवातकालमाश्रित्याह-जरणान्त इत्यादि ; धर्मान्त इति प्रावृषि ; मुक्तधभावतो ज्वरस्य सततकादेरभ्यागमनं, नित्यानुषक्तस्य त्वभिवृद्धिरिति व्यवस्था। परुषारुणत्वञ्च नखादिष्वेव प्रत्यक्तमुपलभ्यत इति कृत्वा नखादय इत्युच्यते ; त्वगग्रहणेनैव बदनग्रहणे लब्धेऽपि वदनग्रहणं वदनत्वचि विशेषेण परुषत्वादिदर्शनार्थम् । क्लृप्तीभावोऽप्रवृत्तिः, सा च योग्यतया भूत्रपुरीषयोरेव नखादिपूक्तयोर्मन्तब्या ; किंवा, क्प्तीभावो भेदः स्फुटनमिति यावत्, स च नखादीनाम् । चलाश्च काश्विद वेदना अचलाश्च काश्विन्नित्यानुषक्तत्वेनेति चलाचलाः, किंवा, अत्यर्थं चलाश्च चलाचलाः ; पिण्डिका जान्वधोजङ्घामध्यमांसपिण्डिका ; भग्नं
For Private and Personal Use Only