________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४२ चरक-संहिता।
। ज्वरनिदानम् ज्वरमभिनिवर्तयति। तस्येमानि लिङ्गानि भवन्ति । तद् यथा-विषमारम्भविसर्गित्वम् उष्मणो वैषम्यं तीव्रतनुभावानवस्थानानि ज्वरस्य, जरणान्ते दिवसान्ते निशान्ते सूचितः। तदा ज्वरमभिनिवत्यतीति यथात्मात्मानं गर्भमभिनिवत्तयति तथा प्रकुपितो वायुरेव यदा कृत्स्नं देहमनुपद्यते तदात्मानं ज्वररूपेणाभिनिष्पादयत्यन्यथा तु तथा प्रकुपितोऽपि न ज्वररूपेणाभिनिष्पद्यते इति यदातदेतिपदाभ्यां ख्यापितमिति। एवंजायमानस्यास्य लिङ्गान्यव्यक्तानि यथा गर्भ वालस्य, तानि व्यक्तानि प्रादुर्भूतस्य लिङ्गानि भवन्ति यथा जातस्य बालस्येति, तदाह-तस्येमानीत्यादि । तस्य प्रादुर्भूतस्याभिव्यक्तस्य वातज्वरस्य इमानि सम्प्राप्तावव्यक्तानि । इमानीति वितृणोति-तद् यथेत्यादि । विषमारम्भविसर्गिसमिति ज्वराभिव्यक्तिः कस्मिंश्चिद् दिने स्वल्परूपेण कस्मिंश्चिदिनेऽधिकरूपेण इति विषमारम्भिवम्, कचिदिने सव्वेथा ज्वरमुक्तिः कचिदिने मन्दतामात्रमिति विषमविसर्गिसमिति वायोरस्थिरत्वस्वभावात् । एवमुष्मणो जठराग्नेरपि वैषम्यं तीव्रतनुभावानवस्थानरूपम् । जरणान्ते जीर्णेऽन्ने सति, दिवसान्तेऽपराह्न , निशान्ते रात्रिशेषे रात्रान्तस्य वायुकालखेऽपि शत्यातिशयखेन रात्रेश्च सामान्यतः श्लेष्मकालत्वेन श्लेष्मानुबन्धं विना केवलवायुना न पक्तिस्थानादितिवचनेन पाक्तस्थानात् पाचकाग्निस्थानात् ; उष्माणमिति पाचकवह्निम् ; वहिरिति पक्तिस्थानव्यतिरिक्तशरीरे ; यद्यपि चोप्माणं निरस्येतिवचनादेव ‘पत्तिस्थानाद्' इति लभ्यते, तथापि पक्तिस्थानाद' इतिवचनेन पक्तिस्थानात् कृत्स्नस्य वह्ननिरसनं दर्शयति, इह चोमशब्देन पाचकाग्निं व्यपदिशन पाचकस्य वह्न रुप्मरूपतां दर्शयति, वाह्यवहिसदृशज्यालाकरं पित्तं निषेधयति ; अत एव च वह्ननिरसनादग्निमान्य ज्वरे दर्शितं भवति । वायुश्चात्रातिवृद्धत्वेन वह्निनिरासकस्तेनाग्निदीप्तिं न करोति ; यत्र हि प्रेरकमात्रो भवति वायुः, तत्र वह्नवृद्धि करोति ; यथा-मेदस्विनः कोष्ठे चरन् वायुरग्निवृद्धिकरो भवति।
लिङ्गान्याह-तदयथा विषमेत्यादि। तदिति सामान्येन स्त्रीपुनपुंसकलिङ्गवक्ष्यमाणरूपप्रत्यवमर्षकम् , सर्वलिङ्गप्रत्यवमर्षे हि 'तद्' इति सर्वनाम युक्तम् । यथेत्युदाहरणे । आरम्भ उत्पादः, विसर्गो मोक्षः, तो विपमो यस्य स विपमारम्भविसर्गी ; विषमत्वञ्च कदाचिच्छिरो गृहीत्वा भवति, कदाचित् पृष्ठं कदाचिच्छसमित्यादि , एवं मोक्षोऽपि कदाचिच्छिरोऽग्रे मुच्यते इति ; किंवा, ज्वरारम्भमोक्षकालानवस्थितत्वमेव वैषम्यम् ; उष्मणो वैपन्यमिति क्वचिच्छरीरप्रदेशे महानुष्मा क्वचिन्मन्द इत्यादि। तीव्रतनुभावानवस्थाभानीति तीवभावस्सनुभावश्च ज्वरस्य
For Private and Personal Use Only