________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम् ।
१८३१ संयोगः पुरुषस्येष्टो विशेषो वेदनाकृतः। वेदना यत्र नियता विशेषस्तत्र तत्कृतः॥ २७॥ चिकित्सति भिषक् सर्वास्त्रिकाला वेदना इति ।
यया युक्त्या वदन्त्येके सा युक्तिरुपधार्यताम् ॥ यशदत्त इत्येवं प्रश्नस्योत्तरमाह-नैक इत्यादि। भूतात्मा भूतानामात्मा यदा खल्वेकः केवलो भवति न तदा लक्षणैरुपलभ्यते लक्षणाभावात्। अनुपलभ्यस्यानुमानेनोपलब्धिरहितस्य तस्यैकस्य केवलस्य सर्वत्रैव विशेषो न विद्यते। संयोगः पुरुषस्यात्मन इतरैमहदादिभिः सह योगो वेदनाकृतो विशेषः। कथम् ? वेदनेत्यादि। यत्र पुरुषे वेदना सुखदुःखात्मिका नियता एकान्तेन विद्यते तत्र वेदनाकृतो विशेष आत्मनि वत्तते। इत्येवं निविशेषस्य आत्मनः पुरुषस्य चतुर्विंशतिकवावस्थां गतस्य वेदनाकृतो विशेष इति ॥२७॥ ___ गङ्गाधरः- एवं वेदनाकृतविशेषविशिष्टस्य राशिखावस्थिकस्य वेदनाभिवत्तिवे, संशयमाह-अथ चार्तस्य भगवंस्तिमृणां कां चिकित्सति। अतीतां वेदनां वैद्यो वत्तेमानां भविष्यतीम्। भविष्यन्त्या असम्प्राप्तिरतीताया अनागमः। साम्प्रतिक्या अपि स्थानं नास्त्यतः संशयो ह्यतः। अथेत्यादि। अथैवं वेदनाभिरातस्य पुरुषस्य तिसृणामीनां कामत्ति भिषक चिकित्सति । किमतीतां वेदनां चिकित्सति अथवा वर्तमानां वेदनामथवा भविष्यन्तीमिति। तिसृष्वपि चिकित्सा नोपपद्यते। कस्मात् ? भविष्यन्त्या वेदनाया असम्प्राप्तिः उत्पत्तिर्नास्ति कथं चिकित्सति ? अतीतायाश्च वेदनाया अनागम आगमनं वेदनाकृतो विशेषो नास्त्येव, यत्र तु वेदनाकृतो विशेषः, स राशिरूपः परमात्मव्यतिरिक्त एवेति वाक्यार्थः। मूतानामधिष्ठाता आत्मा भूतात्मा, अयमेको मूतव्यतिरिक्तो न लक्षणैः प्राणापानादिभिरुक्तरुपलभ्यते। कुतो नोपलभ्यत इत्याह-विशेष इति । एकस्य भूतरहितस्य, यत् मात्मनो विशेषो वेदनादि पलभ्यत एव, तेन अनुपलब्धिरेवान प्रमाणमित्यर्थः। संयोगपुरुष. श्चतुर्विशतिकः। नन्वेवमपि चतुर्विंश यन्तर्निविष्टस्य भूतात्मनो वेदनाकृतविशेषेण भवितव्यम्, यतः, समुदायधर्मः समुदायिनामेव भवति, यथा माषराशेर्गुरुत्वं प्रत्येक माषाणामेव गौरवेण भवतीत्याह-वेदनेत्यादि। वेदना सुखदुःखरूपा। यत्र बुधादिसमूहे नियता व्यवस्थिता वेदना, तत्कृतो दैन्यहर्षादिविशेषोऽपि तत्रैव नियतः, तत्रैव बुद्धयादिराशौ वर्तते, नात्मनीति भावः। बुद्धयादिगतेनैव गुणत्रयपरिणामरूपेण सुखदुःखादिना सुखदुःखादिमानेवायमात्मा, तदसम्बन्धान सुखदुःखादिमान् भवति ॥ २७ ॥
For Private and Personal Use Only