SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८३० चरक-संहिता। कतिधापुरुषीयं शारीरम् ज्ञः साक्षीतुच्यते नाज्ञः साना ह्यात्मा ह्यतः स्मृतः । सो भावो हि सव्वेषां भूतानामात्मसाक्षिकः ॥२६॥ नैकः कदाचिद् भूतात्मा लक्षणैरुपलभ्यते। विशेषोऽनुपलभ्यस्य तस्य नैकस्य विद्यते ॥ गङ्गाधरः-तहि क्षेत्रज्ञानाद् यच्च किश्चित् करोति तत् सर्च जानातीति साक्षिणमात्मानमाहुस्तत्र संशयः। साक्षिभूतश्च कस्यायं कर्त्ता ह्यन्यो न विद्यत इति। यस्मादात्मैव कर्ता न चान्यो महदादिः कोऽपि कर्ता, तस्मात् कस्य साक्षिभूतोऽयमात्मा भवतीति। तत्रोत्तरमाह-ज्ञः साक्षीत्यादि । यो जानाति स ज्ञः सुतरां साक्षीत्युच्यते, शस्खात्मा तत आत्मैव साक्षी न खशो महदादिः। कस्य साक्षीत्यत आह-भूतानां सर्वेषां यस्मात् सवों भाव आत्मसाक्षिक आत्मैव यस्य साक्षी। यत उक्तम् । द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वादत्ति अनननन्योऽभिचाकशीति। एकः क्रियां करोति तत् पिप्पलं च फलं स्वादु अत्ति अपरस्तदभिचाकशीति पश्यतीति, स आत्मा ज्ञः साक्षी। उक्तञ्च मनुना। योऽस्यात्मनः कारयिता तं क्षेत्रज्ञ प्रचक्षते। यः करोति तु कर्माणि स भूतात्मोच्यते बुधैरिति ॥२६॥ गङ्गाधरः-अथैवं साक्षी क्षेत्रशश्चेदात्मा द्रष्टा न तु भोक्ता, तहिं, स्यात् कथं वाऽविकारस्य विशेषो वेदनाकृत इति। आत्मा सर्वभूतेषु निविशेषो निर्विकारः कथं तस्याविकारस्य वेदनाकृतविकारेण विशेषो भवति, य एवास्मिन् देवदत्ते स एव यशदत्तादिषु। तत्र देवदत्तो येन सुखी स्यान तेन चक्रपाणिः- "साक्षिभूतश्च कस्यायम्" इत्यस्योत्तरम्-ज्ञ इत्यादि। ज्ञो ज्ञानवान् साक्षीति लोके कथ्यते, न त्वज्ञः पाषाणादिः। तेन, न, ज्ञवेनासत्यन्यस्मिन् कर्तरि 'साक्षी' इत्युच्यते इति वाक्यार्थः। सर्वेषामिति खादीनाम्, सर्व भावा इति भूतधर्मा दर्शनयोग्याः। आत्मसाक्षिका इति आगोपलभ्यमानाः ॥ २६ ॥ चक्रपाणिः- "कथञ्चाविकारस्य" इत्यादिप्रश्नस्योत्तरम्-नैक इत्यादि । अविकारस्य परमात्मनो * सर्व भावा हि सर्वेषां भूतानामात्मसाक्षिकाः इति चक्रभृतः पाटः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy