________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
म अध्यायः |
शारीरस्थानम् । दिर्नास्त्यात्मनः क्षेत्र - पारम्पर्यमनादिकम् । अत योरादित्वात् किं पूर्वमिति नोच्यते ॥ २५ ॥
दहिनमात्मानं देह कर्मानुपातिना मनसा शरीरविशेषकम्मे फलविशेषयोरनुरूपेण पतनशीलेन मनसा नित्यानुबन्धं न कदापि वियुक्तं तन्मनःसमाधानाद्वहिविषयतो निवृत्तौ प्रसाराभावेन की भूतत्वादेकयोनावपि स्थितं सर्व्वयोनिगतं विद्यात् । ततः सव्र्व्वगतत्वं ततो विभुत्वञ्चेति ॥ २४॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१८२६
गङ्गाधरः -- तत्रवं विभुत्वान्मनसः समाधानात् सव्र्व्वं क्षेत्रं जानाति यतस्ततः क्षेत्रज्ञस्तत्रायं संशयः। क्षेत्रज्ञः क्षत्रमेतयोः किं पूर्व्वम् । क्षत्रशचेत् पूर्वं कथं क्षेत्रं जानाति क्षेत्रागात् । यदि क्षेत्रं पूव्वं ततः परं क्षेत्रज्ञस्तदा क्षेत्रज्ञो न शाश्वतो भवति प्रागवर्त्तनाच्छश्वद्वत्तेनाभावात् । इति प्रश्नस्योत्तरमाह - आदिरित्यादि । आत्मनः क्षेत्रज्ञस्यादिः प्रथमनिर्देशो नास्ति किमवधिरात्मास्ति क्षेत्राणाञ्च पारम्पर्य्यमव्यक्तान्महान् महतोऽहङ्कार इत्येवं परम्परमुत्पत्तिस्तस्यापि आद्यभावादनादिकं तत् पारम्पर्य्यम् । तयोरुभयोरत एवंविधादनादिखात् पूब्वं किमिति नोच्यते । यद्यप्येवमनादित्वं क्षेत्रक्षेत्रज्ञशयोस्तथापि यथा खल्वादिसऽव्यक्तं नामात्मा बभूव यथा चाव्यक्तान्महदादिक्षेत्रं बभूव तत्पारम्पर्यादादौ क्षत्रशोऽव्यक्तं नामात्मा बभूव न क्षेत्रज्ञो नाम । ततः परं तस्मादव्यक्तात् क्षेत्रं यदा बभूव तस्य ज्ञानात् क्षेत्रज्ञो नाम बभूव । इति । क्षेत्रज्ञत्वस्वभावेनाव्यक्तं प्रागासीत् ततः क्षत्रज्ञ उच्यते क्षेत्रज्ञनाम तु क्षेत्रे जाते बभूवेति ॥ २५ ॥
तत्राप्युपपत्तिमाह - नित्येत्यादि । सर्व्वयोनिगतमप्यात्मानं मनसानुबन्धगतम् एकयोनावपि स्थितं विद्यादिति योज्यम् । देहानुवर्त्तकेन कम्मणा अनुपात आत्मना सम्बन्धो यस्य तेन मनसा देहकर्मानुपातिना । एतेन यद्यप्यात्मा कुड्यादितिरोहितस्तथापि यदस्योपलब्धिसाधनं मनः, तस्यैकस्मिन्नेव शरीरे व्यवस्थितस्य व्यवधानात् " न पश्यत्ययं तिरस्कृतम्” इत्युक्तं भवति ॥ २४ ॥
चक्रपाणिः - " क्षेत्रज्ञः क्षेत्रमथवा" इत्यादिप्रश्नस्योत्तरम् - आदिरित्यादि । क्षेत्रपारम्पर्यमिति क्षेत्रस्याव्यक्तवर्जितस्य महदादित्रयोविंशतिकस्य परम्परासन्ततेरनादित्वेनैव 'क्षेत्रक्षेत्रज्ञयोरिदं प्रथमम्” इति व्यपदेशो नैव भवतीत्यर्थः । ननु यदि क्षेत्र परम्पराप्यनादिस्तदात्मवदुच्छे ढं नाप्नोति यदनादिस्तन्नित्यं भवति, यथात्मेति दृष्टम् ; ब्रूमः अनादित्वेऽपि यत् स्वरूपेण एवानादि, तन्नोच्छिद्यते, यथा आत्मा । यत् तु उच्छित्तिधर्मकं बुद्धयादि, तदुच्छिद्यत एव सन्तानस्तु परमार्थतः सन्तानिभ्यो ऽतिरिक्तं नास्त्येव यदनादिः स्यात् । तेन, सन्तानवादित्वं भाक्तमेव । किचैवम्भूतस्य बुद्धादिसन्तानस्योच्छेदे मोक्षप्रतिपादक आगभ एव प्रमाणत्वेन ज्ञेयः ॥ २५ ॥