________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२८
चरक-संहिता। कतिधापुरुषीयं शारीरम् विभुत्वग्त एवास्य यस्मात् सर्वगतो महान् । मनसश्च समाधानात् श्यत्यात्मा तिरस्कृतम् ॥ नित्यानुबन्धं मनसा देहकर्मानुपातिना।
सर्वयोनिगः विदेकयोनापि स्थितम् ॥ २४ ॥ किं न वेत्तीति प्रश्नस्योत्तरमाह-देहीत्यादि। हि यस्मात् सर्वगतोऽप्यात्मा देही रजस्तमोभ्यां मुग्धः स्वे स्वे संस्पर्शनेन्द्रिये स्वस्वसर्वा वेदना वेत्ति अतो देहिखात् सर्वाश्रयस्थास्तु सर्वा वेदना न वेत्ति । एवमेवोक्तं स्मृतिशास्त्रे याज्ञवल्क्यन। वेत्ति सर्वगतां कस्मात् सव्वेगोऽपि न वेदनाम् । सर्वाश्रयां निजे देह देही विन्दति वेदनामिति ॥२३॥
गङ्गाधरः-तहि कथं विभुः स्यादात्मा, विभुश्च चेत् कस्माच्छेलकुड्यतिरस्कृतं न पश्यतीत्यभिप्रेत्याह, न पश्यति विभुः कस्मात् शैलकुड्यतिरस्कृतमिति । तत्रोत्तरम्-विभुखमत एवेत्यादि। यस्मात् सर्व्वगतो महांश्चात्माऽत एव विभुखमस्य न तु देहिखात् । देहिवे तु शैलकुड्यतिरस्कृतं न पश्यति । तहि देहिले कथं सव्वेगत आत्मा स्यादित्यत आह-- मनसश्चेत्यादि। अयमात्मा मनसः समाधानाद् योगे वर्तमानः समाधिं कुर्वन्नात्ममनसोः संयोगविशेषात् शैलकुड्यादिभिस्तिरस्कृतं सव्वं पश्यतीति सम्वेगतस्तदा स्यात् । कथमेकदेहस्थः सव्चे मनसः समाधानात् पश्यतीत्यत आह–नित्यानुबन्धमित्यादि। वेत्ति, सर्वाश्रयस्थास्तु न वेत्तीति योजना। यस्मात् सर्वगतोऽयमात्मा स्वकीय एव स्पर्शनवति शरीरे परं वेदना वेत्ति। तेन सर्वाश्रयस्थाः सर्ववेदना न वेत्तीति वाक्यार्थः। सर्वाश्रयस्था इति सर्चपरशरीरगताः। परशरीरे चात्मा स्वकर्मोपार्जितेन्द्रियाभावाद् विद्यमानोऽपि न लभते सुखदुःख। स्वे स्वे शरीर इति वक्तव्ये, यत् संस्पर्शनेन्द्रिये इति करोति, तेन स्वशरीरेऽपि केशनखादा स्पर्शनेन्द्रियं नास्ति, तत्र नात्मा किञ्चिदुपलभत इति दर्शयति ॥ २३ ॥
चक्रपाणि:--"न पश्यति विभुः कस्माद'. इत्यादिप्रश्नस्योत्तरं वक्तु प्रवृत्तो विभुन्वसाधकार्थगुणहेतुप्राप्त्या विभुत्वमेव तावदात्मनः साधयति-विभुत्वमित्यादि। विभुत्वं सवगतपरिमाणयोगित्वम् । अत एवेत्युक्तसवंगतत्वात। एतदेव स्पष्टार्थ साक्षाद् ब्रूते-यस्मादित्यादि। सर्वगतत्वं सर्वतोऽप्युपलभ्यमानत्वेन सर्वगताकाशादिपरिमाणस्याप्यस्ति, तेन, तद्व्यवच्छेदार्थ 'महान' इति पदम, महापरिमाणयोगिद्रव्यं विभुरुच्यत इति फलति। विभुत्वं व्युत्पाद्य कुड्यादितिरोहितात्मज्ञानं नैकान्तं भवतीति दर्शयन्नाह-मनस इत्यादि। समाधानं समाधिः। अनेन योगिनः समाधिबलात् तिरोहितमपि पश्यन्तीति दर्शयति । ये तु तिरोहितं न पश्यन्ति,
For Private and Personal Use Only