________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२७
१म अध्यायः
शारीरस्थानम्। वशी तत् कुरुते कर्म यत् कृत्वा फलमश्नुते । वशी चेतः समाधत्ते वशी सव्वं निरस्यति ॥ २२ ॥ देही सर्वगतो ह्यात्मा स्वे स्वे संस्पर्शनेन्द्रिये ।
सर्वाः सर्वाश्रयस्थास्तु नात्माऽतो वेत्ति वेदनाः ॥ २३ ॥ शतेषु च। अनन्ताश्च यथा भावाः शरीरेषु शरीरिणाम्। रूपाप्यपि तथैवेह सव्वेयोनिषु देहिनाम् । इत्यादि ॥२१॥
गङ्गाधरः-अथ वशी यद्यसुखैः कस्माद्भावैराक्रम्यते बलादिति प्रश्नस्योत्तरमाह--वशी तदित्यादि। न खलु यः स्वरशे वर्तते स वशी, तहि कः पुनर्वशी नामोच्यते ? स वशी यस्तु तत् कम्म कुरुते यत् कर्म कृखा तस्य कम्मणः फलं स्वयमेवाश्नुते नान्योऽश्नुते। प्रज्ञया प्रज्ञापराधेन च सदसत्काण्यात्मा करोति तत्र सत्कर्मकर्ता तादृशवशी तत्कृतकर्म फलेन सुखेन बलात् आक्रम्यते। असत्कर्मकर्ता च वशी तत्कर्मफलेन दुःखेन बलादाक्रम्यते। यस्तु चेतः समाधत्ते स वशी, यश्च सर्च निरस्यति सोऽपि सर्वसंन्यासी वशी, स स नासुखैर्भावैलादाक्रम्यत इति ॥२२॥
गङ्गाधरः- नन्वेवं चेदात्मा सर्वगतः सर्वगतखाच्च सर्वाः सर्वेषां वेदनाः योनिगमने स्वातन्त्रयम् -यद अनिष्टयोनिगमनहेत्वनिष्टकारणे स्वातन्त्रयम्, अनिष्टकारणारब्धस्वकर्मणैवायमनिच्छन्नपि नीयत इत्यनिष्टयोनिगमनं भवति। स्वातन्त्रपञ्च यथोक्तं भवति ॥ २१॥ . चक्रपाणिः-- "वशी यद्यसुखैः कस्माद् भावैराक्रम्यत" इत्यस्योत्तरम्-वशीत्यादि। वशी स्वेच्छाधीनप्रवृत्तिः इप्टेऽनिष्टे वात्मा, तेन वशी सन् अयं तानि कर्माणि करोति शुभान्यशुभानि वा आपातफलरागाइ, यानि कृत्वा तत्कर्मप्रभावात् शुभेनाशुभेन वा योगमाप्नोति। एतेन, कर्तव्ये कामयस्य वशित्वम् , कृतकर्मफलन्त्वस्यानिच्छतोऽपि भवति । तेन, तत्प्रति नास्य वशित्वम् । अन्यदपि वशित्वफलमाह-वशी चेतः समाधत्त इति। अनिष्टेऽर्थे वशी सन् अयं मनो निवर्त्तयति। यदि ह्ययं वशी न स्यात्, न मनो निवर्तयितु शक्नुयात् । अपरमपि वशित्वगमकं कर्माह -वशी सर्व निरस्यतीति। वशो सन्नयं मोक्षार्थप्रवृत्तः सर्बारम्भं शुभाशुभफलं त्यजतीत्यर्थः। इह 'स्वतन्त्रः' परात्मना ईश्वरादिना प्रेरितप्रवृत्तिरुच्यते। वशी तु स्वयमपि प्रवर्त्तमान इच्छावशात् प्रवर्त्तते, न प्रेरितप्रवृत्तिरूपत्वेन ईप्सिते वर्त्तते इति स्वातन्त्रयवशित्वयोर्भदः ॥ २२ ॥
चक्रपाणिः- "सर्वाः सर्वगतत्वाञ्च वेदनाः किं न वेत्ति सः” इत्यस्योत्तरमाह-देहीत्यादि । सर्वगत इति सर्वगतोऽपि। संस्पर्शनेन्द्रिय इति संस्पर्शयुक्ते शरीरे वेदनाः सुखदुःखरूपा
For Private and Personal Use Only