SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६२६ चरक-संहिता। कतिधापुरुषीथं शारीरम् यथास्वेनात्मनात्मानं सर्वः * सर्वासु योनिषु । प्राणैस्तन्त्रयते प्राणी न ह्यन्योऽन्यस्य + तन्त्रकः ॥ २१ ॥ फलं भुङ्क्त। क्षेत्रज्ञः पश्यति। अत्राप्यनुद्रष्टानुमन्तानुभोक्ता परमात्मा महेश्वरः शिव इति। तदुक्तं भगवद्गीतायां त्रयोदशाध्याये। प्रकृतिं पुरुषञ्चैव विद्धानादी हुप्रभावपि । विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्। कार्यकारणकत्र्तृत्वे हेतुः प्रकृतिरुच्यते। पुरुषः सुखदुःखानां भोक्तृखे हेतुरुच्यते। पुरुषः प्रकृतिस्थो हि भुङ्क्त प्रकृतिजान् गुणान्। कारणं गुणसंशोऽस्य सदसयोनिजन्मसु। उपद्रष्टानुमन्तानुभोक्ता भर्ता महेश्वरः। परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः। इति। इति निष्क्रियस्य क्रिया तस्य भगवन् विद्यते कथमिति प्रश्नस्योत्तरमिति ॥२०॥ गङ्गाधरः-अथ स्वतत्रश्चेदनिष्टासु कथं योनिषु जायत इति प्रश्नस्योत्तरमाह-यथास्वेनेत्यादि। न खलु स्वस्य तत्रः स्वतत्रः स यः स्वेतराप्रयुज्यः सन् स्वेतरप्रयोजकः कर्ता। तहि क इह स्वतत्रः। प्राणी सर्वः प्राणभृत् । यथास्वेन स्वमनतिक्रम्य स्वेन स्वेनात्मना सर्वासु योनिषु प्राणैस्तत्रयते न खन्यस्य तन्त्रकोऽन्य इति। तस्मादनिष्टासु योनिषु जायते। नैकान्तेनेष्टासु इति। याज्ञवल्क्यसंहितायाश्च। निःसरन्ति यथा लोह-पिण्डात् तप्तात् स्फुलिङ्गकाः। सकाशादात्मनस्तद्वदात्मानः प्रभवन्ति हि। तत्रात्मा हि स्वयं किश्चित् कर्म किश्चित् स्वभावतः। करोति किश्चिदभ्यासाद धौधौ भयात्मकम् । निमित्तमक्षरः कर्ता द्रष्टा ब्रह्म गुणी वशी। अजः शरीरग्रहणात् स जात इति कीत्ताते। इत्यादि। तत्र प्रश्नाः क्रमेण । यदेवमेव स कथं पापयोनिषु जायते इति, परत्र च कथं भावरनिष्टः संप्रयुज्यते ? तत्रोत्तरम् । अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजः । दोषैः प्रयाति जीवोऽयं भवं योनिन त्वचेतनं मनः, तत्पराधीनक्रियत्वेन परमार्थतः क्रियावदपि कर्तृत्वेन नोच्यत इति वाक्यार्थः । मोच्यते कर्तृ इति शेषः ॥ २० ॥ चक्रपाणिः-सम्प्रति स्वतन्त्रत्वेऽप्यनिष्टयोनिषु गमनं प्राणाक्षिप्तं समादधाति-यथा. स्वेनेत्यादि। सर्वासु नरगोहस्तिकीटादियोनिषु। प्राणैस्तन्त्रयते प्राणैर्योजयति, आत्मनैवायं धर्माधर्मसहायेनात्मानं सर्वयोनिषु नयति, न परप्रेरितो याति, यतोऽन्यः पुरुषोऽस्य प्रेरको नास्ति ईश्वरा ।वात् । किंवा सत्यपि ईश्वरे तस्यापि कर्मपराधीनत्वात् । इदमेव चास्यानिष्ट * नयति सर्वयोनिषु इति चक्रः । __ + अन्यस्येत्यत्र अस्त्यस्य इति चक्रः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy