________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः] शारीरस्थानम् ।
१८२३ शरीरं हि गते तस्मिन् शन्यागारमचेतनम् ।
पञ्चभूतावशेषत्वात् पञ्चत्वं गतमुच्यते ॥ १६ ॥ एतानि लिङ्गानि जीवतो देवदत्तादेः समुपलभ्यन्ते, न तु मृतस्य । तस्मादात्मलिङ्गानि खल्वेतानि महर्षय आहुः। ननूच्यते देवदत्तस्येदं शरीरमिति मृतस्य न कथमेतानि लिङ्गानि ? तत्राह-शरीरं हीत्यादि। हि यस्मात् । तस्मिन्नात्मनि शरीराद् गते तच्छरीरं शून्यागारमचेतनं भवति । ननु तर्हि शरीरं मृतस्य किंरूपं वर्तते ? इत्यत आह–पञ्चेत्यादि। शरीरारम्भकाणां शुक्रशोणितमात्राहारात्मजानां चतुविधानां पञ्चानां भूतानामवशेषलाइ आत्मस्थपञ्चभूतानां शरीरान्निर्गतत्वे शेषतया स्थितखात् पञ्चत्वं गतं शरीरमुच्यते । तस्मात् प्राणापानादीनि परमात्मनो लिङ्गानीति । याज्ञवल्क्यसंहितायाञ्च। अहङ्कारः स्मृतिमेधा द्वे पो बुद्धिः सुखं धृतिः। इन्द्रियान्तरसञ्चार इच्छा धारणजीविते । स्वर्गः स्वप्नश्च भावानां प्रेरणं मनसो गतिः। निमेषश्चेतना यत्न आदानं पाश्चभौतिकम्। यत एतानि दृश्यन्ते लिङ्गानि परमात्मनः। तस्मादस्ति परो देहादात्मा सवंग ईश्वरः॥ इति सप्तमप्रश्नोत्तरम् ॥१९॥ कथमेतान्यात्मानं गमयन्तीत्याह- यस्मादित्यादि। जीवत इति पञ्चभूतारिक्तात्मसंयुक्तस्य । पञ्चत्वन्तु यद्यपि जीवतो न भवति, किन्तु मृतस्यैव, तथापि पञ्चत्वं मृतशरीरे दृश्यमानं विपर्ययात् पञ्चत्वाभावाद् जीवच्छरीरलिङ्गं भवतीति ज्ञेयम् । अप्रैवोदाहृताश्च प्राणापानादयो न भूतमात्रे भवन्ति, निरात्मकेष्विष्टकमृतशरीरादिष्वदर्शनात । न च मन एव भूतातिरिक्तमात्मा भवितुमर्हति। यतस्तस्यापि करणरूपस्य प्रेरणादर्थज्ञानं कर्त्तव्यम्। नापीन्द्रियाण्यात्मत्वेन स्वीकत्तुं पार्यन्ते । यतः, तथा सति इन्द्रियाणीन्द्रियान्तरोपलब्धार्थ न प्रतिसन्धातु समर्थानि भवन्ति । अम्ति चेन्द्रियान्तरोपलब्धार्थप्रतिसन्धानम् , यथा-सुरभिचन्दनं स्पृशामि। तस्मात् मनइन्द्रियभूतातिरिक्तात्मा तिष्टतीति ज्ञेयम् । अत्र यद्यपि 'बुद्धि'शब्देन चेतनातिस्मृत्यहङ्काराः प्राप्यन्त एव, तथापि बुद्धिप्रकरणत्वेन पृथक्पृथगात्मकत्वेन पुनःपुनः पृथगुपात्ताः। तथा हि चेतनागुणत्वेन चेतना खादिमूतातिरिक्तधर्मेणात्मानं गमयति। पृतिस्तु नियमात्मिका नियन्तारम आत्मानं गमयति । बुद्धिस्तु ऊहापोहयोरेकं कारणं गमयत्यात्मानम्। स्मृतिस्तु पूर्वानुमूतार्थस्मरणकर्तारं स्थायिनमात्मानं गमयतीत्यनुसरणीयम्। आत्माधिष्ठात्रभावे शरीरे प्राणाद्यभावमाह-शरीरमित्यादि। शून्यागारमिव शून्यागारं यथाऽधिष्टातृशून्यम्, एवं मृतशरीरमपि। पड़धातुकं शरीरम्, तत्र पष्ठे आत्मनि गते पञ्चभूतात्मकं शरीरं भवति, तेन पञ्चत्वं गतम् उच्यते ॥ १९ ॥
For Private and Personal Use Only