SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८२२ चरक-संहिता। कतिधापुरुषीयं शारीरम् तस्मात् 8 समुपलभ्यन्तै लिङ्गान्येतानि जीवतः । न भृतस्यात्मलिङ्गानि तस्मादाहुमहर्षयः॥ ग्रन्थोपयताः खल्वर्था अन्योन्यस्मृतिहेतव आनुपू]तरथा वा भवन्तीति । धारणा शास्त्रकृतो वा प्रशातेषु वस्तुषु स्मर्तव्यानामुपक्षेपो निबन्ध इति। अस्य अभ्यासस्तु समाने विषये ज्ञानानामभ्यात्तिरभ्यासजनितः संस्कार आत्मगुणोऽभ्यासशब्देनोच्यते, स च स्मृतिहेतुः समान इति । लिङ्गं पुनः संयोगिसमवाय्येकार्थसमवायिविरोधि चेति। संयोगि यथा-धूमोऽग्नेः। समवायि यथा-गोविषाणम्। एकार्थसमवायि यथा-पाणिः पादस्य, रूपं स्पर्शस्य । विरोधि यथा-अभूतं भूतस्येति। लक्षणं पश्ववयवस्थं गोत्रस्य स्मृतिहेतुः । विदानामिदं गर्गाणामिदमिति। सादृश्यं चित्रगतं प्रतिरूपकम् ; देवदत्तस्येत्येवमादि। परिग्रहात्। स्वेन वा स्वामी स्वामिना वा स्वः स्मय्यते। आश्रयात् । ग्रामण्या तदधीनं स्मरति । आश्रितात् । तदधीनेन ग्रामण्यमिति । सम्बन्धात् । अन्तेवासिना गुरु स्मरति, ऋखिजा याज्यमिति। आनन्तव्योत् । इति करणीयेष्वर्थेषु । वियोगात् । येन विप्रयुज्यते तद्वियोगप्रतिसंवेदी भृशं स्मरति । एककार्यात् । कञन्तरदर्शनात् कञन्तरे स्मृतिः। विरोधात् । विजिगीषमाणयोः अन्यतरदर्शनाद अन्यतरः स्मय्यते। अतिशयात् । येनातिशय उत्पादितः । प्राप्तः। यतो येन किश्चित् प्राप्तमप्राप्तं वा तमभीक्ष्णं स्मरतीति। व्यवधानात् । कोशादिभिरसिप्रभृतीनि स्मर्यन्ते। सुखदुःखाभ्यां, तद्धे तुः स्मर्यते। इच्छाद्वेषाभ्यां यमिच्छति यश्च द्वष्टि तं स्मरति । भयात् । यतो बिभेति । अथित्वात् । येनार्थी भोजनेनाच्छादनेन वा। क्रियायाः। रथेन रथकारं स्मरति । रागात्। यस्यां स्त्रियां रक्तो भवति तामभीक्ष्णं स्मरति । धम्मात् । जात्यन्तरस्मरणम्, इह चातीतश्रुतावधारणमिति । अधम्मात् । प्रागनुभूतदुःखसाधनं स्मरति। न चैतेषु निमित्तेषु युगपत् संवेदनानि भवन्तीति युगपदस्मरणमिवि । निदर्शनञ्चेदं स्मृतिहेतूनां न परिसङ्ख्यानमिति । इत्यादि गौतमोक्तं पूर्वाध्याये विस्तरेणोक्तं दर्शितम्। ननु प्राणापानादिकं देवदत्तादिपुरुषस्य दृश्यते कथं परमात्मनो लिङ्गमित्यत आह-तस्मादित्यादि। तस्मात् परमात्मन एव अव्यक्तादात्मन दक्षिणाक्षिदृष्टो घट इत्यवगम इत्यर्थः। चेतना ज्ञानमात्रम्। बुद्धिस्तूहापोहज्ञानम् । अथ * यस्मादिति चक्रः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy