________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
शारीरस्थानम् ।
१८२१ प्रत्यगात्मनि देवदत्ते यशदत्ते विष्णुमित्रादौ च सुखदुःखज्ञानादीनां निप्पत्तिः परात्मन एवैकस्मादविशेषेण भवतीत्येक एवात्मा यथाकाशकालदिशः एकात्मिका इति। परन्तु। व्यवस्थातो नाना। उपाधिमत्त्वे जन्ममरणादिव्यवस्थातो नाना। प्रतिपुरुषमेकैक आत्मेति ।
ननु बुद्धीच्छादयो मनसो गुणा न खात्मगुणा इति चेन्नेत्युवाच कणादः। कस्मात् ? परत्र समवायात् प्रत्यक्षवाच्च नात्मगुणा मनसो गुणाः । अप्रत्यक्षवात् । इति। प्रत्यगात्मनो बुद्धग्रादयो गुणाः, परत्रात्मन्यव्यक्त समवायात् प्रत्यगात्म. प्रत्यक्षबाच्चात्मगुणा न मनसोगुणाः, अप्रत्यक्षखात् मनःप्रत्यक्षवाभावात्। पूवेमुक्तमस्मिंस्तन्त्रे। आत्मना चेन्द्रिययत स्वयमुपलभ्यते तत् प्रत्यक्षम् । इच्छाद्वेषसुखदुःखप्रयनबुद्धय आत्मप्रत्यक्षाः शब्दादयस्विन्द्रियप्रत्यक्षा इति । भ्रान्ता अनुपयो मानसप्रत्यक्षानाहुरिच्छाद्वषादीन् । कथं विज्ञायते परत्रात्मनि बुद्धीच्छादीनां समवायः ? उच्यते-कारणगुणपूर्वकस्तु कार्यगुणो दृष्ट इति। आत्मनः कार्ये प्रत्यगात्मनि बुद्धीच्छादयो गुणा दृश्यन्ते, यद्यस्य कारणेऽव्यक्तात्मन्येते बुद्धीच्छादयो नावर्त्तिष्यन्ताथ कार्य प्रत्यगात्मनि नाभविष्यनिति । कार्यान्तराभावाच । कारणगुणातिरिक्तकाय्यंगुणान्तराभावाच काय्यद्रव्य इति । गौतमेनापि ज्ञानस्येन्द्रियार्थभूतमनोगुणत्वं निरस्यात्मनो गुणो ज्ञानमुक्तं तत् पूर्वाध्याये निर्विकारः परस्त्वात्मेति श्लोकव्याख्याने दर्शितम् । स्मरणादयो गुणाश्चात्मन एव गौतमेनोक्ताः। तद् यथा। स्मरणन्वात्मनो शस्वाभाव्यात्। व्याख्यातञ्च वात्सपायनेन। आत्मन एव स्मरणं, न बुद्धिसन्ततिमात्रस्य। तु-शब्दोऽवधारणे। कथं? शस्वाभाव्यात्। ज्ञ इत्यस्य स्वभावः स्वो धम्मः, अयं खलु ज्ञास्यति जानात्यशासीदिति त्रिकालविपयेण अनेकेन ज्ञानेन सम्बध्यते। तचास्य त्रिकालविषयं शानं प्रत्यात्मवेदनीयम् । ज्ञास्यामि जानामि अशासिषमिति वर्तते। तद् यस्यायं स्वो धर्मस्तस्य स्मरणं न बुद्धिप्रबन्धमात्रस्य निरात्मकस्येति। स्मृतिहेतूनामयोगपद्याद् युगपदस्मरणमित्युक्तम्। सा च स्मृतिः केभ्य उत्पद्यते, इत्यत उक्तं गौतमेन । प्रणिधान-निबन्धाभ्यास-लिङ्ग-लक्षणसादृश्यपरिग्रहाश्रयाश्रित-सम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयाथिख-क्रियारागधमाधम निमित्तेभ्यः। सुस्मूपेया मनसो धारणं प्रणिधानं, सुस्मूर्षितलिङ्गचिन्तनश्वार्थस्मृतिकारणम्। निबन्धः खल्वेक ग्रन्थोपयमोऽर्थानाम् । एको गतिः स्वप्न इति च्छेदः। पऋत्वग्रहणं मरणज्ञानम्। सव्येनावगम इति सन्येनादणा, स एवायं
For Private and Personal Use Only