________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२०
चरक-संहिता। यतिधापुरुषीयं शारीरम् नागमिकमिति । तहि किमित्यत आह-यद दृष्टमन्नमद दवदत्तोऽहं यशदत्त इति द्रष्ट्र खात् प्रत्यक्षवत् । येन मयान्नं दृष्टं सोऽहमयं देवदत्तः स एवाह यशदत्त इति द्रष्टुवात् परात्मनः प्रत्यक्षवल्लिङ्गं प्राणापानादिकं न प्रत्यक्षं तस्मादनागमिकं न भवति । अस्तु तर्हि च प्रत्यक्षवद्भावेन सामान्यतो दृष्टादानुमानिकं देवदत्तो यशदत्त इति भेदेन प्रत्ययस्तु यो भवति स खलु देवदत्तो गच्छति यज्ञदत्तो गच्छतीत्युपचारात् शरीरप्रत्ययः। यतो देवदत्तो यज्ञदत्त इति भेदेन प्रत्ययोऽविशेषेऽपि परात्मनः शरीरे उपचारात् । अन्यथा देवदत्तो गच्छतीति प्रत्ययो न स्यादात्मनो गत्यभावादिति। कस्मादुपचारः ? ममेति प्रत्ययस्य याथार्थ्यात् । मम शरीरमिति प्रत्ययस्य याथार्थ्यात्। देवदत्तो गच्छतीति देवदत्तशब्दार्थस्यात्मनः शरीरे उपचार इति। तत्राह। सन्दिग्धस्तूपचारः। आत्मनः शरीरे तूपचारः सन्दिग्धः। मम देवदत्तस्य शरीरमिति गच्छतीत्युक्तेः शरीरे किमुपचारः । अहं जानामि चेच्छामीत्यादौ किमात्मन्युपचारः। तत्राह। अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तरमात्मरूपं प्रत्यक्षं यत्र प्रत्यये स प्रत्ययार्थान्तरप्रत्यक्षः। अहं देवदत्त इति प्रत्ययस्य प्रत्यगात्मनि भावात। परत्रात्मन्यभावात् प्रत्यगात्मनः स्वरूपं परात्मनः स्वरूपमर्थान्तरं न खनान्तरं तयोर्यत्र प्रत्यये प्रत्यक्षं स प्रत्ययः प्रत्ययार्थान्तरप्रत्यक्षः। तत्राह। सन्दिग्धस्तूपचारः। न तु शरीरविशेषाद यज्ञदत्त विष्णुमित्रयोनिविशेष इति । प्रत्यगात्माहं जानामीतीच्छति प्रत्यगात्मनि शानेच्छादिमत्त्वात्। गच्छामि तिष्ठामीति गमनादिक्रियावत्त्वाच्छरीरे चोपचाररतु सन्दिग्धः किं प्रत्यगात्मनि किं शरीरे वोपचारो न तु शरीरविशेषाद यज्ञदत्तविष्णुमित्रयोञ्जन विशेषस्ततः स्यात्। शरीरभेदन तत् प्रत्यगात्मनो यज्ञदत्त विष्णु मित्रतया तु शानविशेषः स्यात्, तस्मात् अहमिति सुरख्ययोग्याभ्यां शब्दवद्वातिरेकाद व्यभिचाराद्विशेषसिद्धेरागमिकम्। प्रत्यगात्मनि अहमिति मुख्यप्रवृत्त्या शरीरे योग्यया प्रवृत्त्याह मिति शब्दवत्। आप्तोपदेशवत्। जातिगुण क्रिया यदृच्छासकते मुख्यया प्रत्याप्ता उपदिशन्ति । व्यतिरेकादनुपदेशाज्जात्यादिषु गमनादीनां व्यभिचाराद्विशेषसिद्धेरात्मनः प्राणापानादिकं लिङ्गमागमिकं तेनाहमिति । तेन मुख्यया प्रवृत्त्या ब्राह्मणोऽहमिति। यदृच्छाप्रवृत्त्या देवदत्तोऽहमिति यज्ञदत्तोऽहमिति जात्याकृतिव्यक्तिसमुदाये मुख्या वृत्तिरतेन परात्मनि वह मिति प्रत्ययः। न चानेकखमात्मनः । सुखदुःखज्ञाननिष्पत्यविशेषादैकात्म्यम्। परित्यज्य मनः स्पर्शनमधितिष्ठतीत्यादि, प्रेरणाञ्ज तथा धारणञ्च मन्स एवेति इदम् । देशान्तर
For Private and Personal Use Only