SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः । शारीरस्थानम् । १८१६ अमृतस्य परं सेतुर्दग्धेन्धनमिवानलमिति-आश्रये इति पूर्वमन्त्रस्थेन अन्वयः। निरञ्जनं निर्लिङ्गमिति। गौतमेनाप्युक्तम् । इच्छाद्वेषसुखदुःखप्रयत्नशानान्यात्मनो लिङ्गानि । कणादेनापि वैशेषिकेऽप्युक्तम्। प्राणापानौ निमेषोन्मेषजीवनमनोगतीन्द्रियान्तरसञ्चारा बुद्धिः सुखदुःखेच्छाद्वेषप्रयत्नाश्चात्मनो लिङ्गानि। प्रवृत्तिनिवृत्ती प्रत्यगात्मनि दृष्टे परत्र लिङ्गमिति । यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावात् दृष्टं लिङ्गं न विद्यते। सामान्यतो दृष्टाचाविशेषः। तस्मादागमिकम्। अहमिति शब्दस्य व्यतिरेकानागमिकम् । यत् दृष्टमन्नम् अहं देवदत्तोऽहं यज्ञदत्त इति द्रष्ट्रखात् प्रत्यक्षवत् । देवदत्तो गच्छति यज्ञदत्तो गच्छतीत्युपचाराच्छरीरप्रत्ययः। ममेतिप्रत्ययस्य याथार्थ्यात्। सन्दिग्धस्तूपचारः। अह मिति प्रत्यगात्मनि भावात् परत्र अभावादर्थान्तरमात्मस्वरूपं प्रत्यक्षं यत्र प्रत्यये स प्रत्ययार्थान्तरप्रत्यक्षः । सन्दिग्धस्तूपचारः। न तु शरीरविशेषाद यज्ञदत्तविष्णुमित्रयोनि विशेषः । अहमिति मुख्ययोग्याभ्यां शब्दवातिरेकाद व्यभिचाराद्विशेषसिद्धरागमिकम् । तेनाहमिति। सुस्वदुःखज्ञाननिष्पत्त्य विशेषादैकात्म्यम्। यथाकाशकालदिशः। व्यवस्थातो नाना। तस्याभावादव्यभिचारः। इति सूत्राणि क्रमेण व्याख्यातानि। तद् यथा । ननु प्राणापानादिकमात्मनो लिङ्गं किं दृष्टमथानुमानिकमागमिकं वेति। तत्राह। प्रत्तिनिवृत्ती प्रत्मगात्मनि दृष्टे परत्र लिङ्गम् । प्रत्यगात्मनि दृष्टे लिङ्गे परत्र स्वमस्थानमुपुप्तिस्थानाव्यक्तेषु लिङ्गं सव्वैमागमिकं न दृष्टं न वानुमानिकम् । कस्मात् ? यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावात् दृष्टं लिङ्गं न विद्यते। प्रत्यगात्मनि हि यज्ञदत्त इति सनिकष दृष्टं प्रत्तिनिवृत्त्यादिकं परत्र प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते। तहि किमानुमानिकमित्यत आह - सामान्यतो दृष्टाचाविशेपः। प्रत्यगात्मनि यथा यशदत्त इति सनिक दृष्टं लिङ्गं तत् सामान्यतो दृष्टाच्च परत्र नानुमानिक यथा प्रत्यगात्मा प्राणिति चापानिति निमिपतीत्येवमादि दृश्यते न तथा परात्मा, तस्मात् सामान्यतो दृष्टाच्चानुमानिकमपि प्रत्यगात्मपरात्मनोरविशेषः । तस्मादागमिकमिति। प्रत्यगात्मपरात्मनोरविशेषादागमिकं परत्रात्मनि प्राणापानादिकं लिङ्गम् । यदि तुल्यं लिङ्गं न स्यादुभयोरविशेषो न स्यादिति। . तत्राह वादी-अहमिति शब्दस्य व्यतिरेकानागमिकम् । त्वं देवदत्तोऽहं यशदत्त इति व्यतिरेकादविशेषाभावात् प्रत्यगात्मपरात्मनोरप्यविशेषाभावात् गतिरिति मनसा पाटलिपुत्रादिगमनरूपा। इन्द्रियान्तरसञ्चारोऽपि मनस एव, यथा-चक्षुः For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy