SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८१८ चरक-संहिता। [ कतिधापुरुषीयं शारीरम् प्राणापानौ निमेषाद्या जीवनं मनसो गतिः। इन्द्रियान्तरसञ्चारःप्रेरणं धारणञ्च यत् ॥ देशान्तरगतिः स्वप्ने पञ्चत्वग्रहणं तथा। दृष्टस्य दक्षिणेनाक्षणा सव्येनावगमस्तथा ॥ इच्छा द्वेषः सुखं दुःखं प्रयत्नश्चेतना धृतिः । बुद्धिः स्मृतिरहङ्कारो लिङ्गानि परमात्मनः॥ ये चाहङ्कारपरा अविद्यामूदास्तेषामुदयालयो कल्पे कल्पे जन्ममरणे भवतः। ये खतोऽन्यथा द्वन्द्वानासक्ता अहङ्कारविवर्जितास्तपां नोदयप्रलयौ पुनरिह जन्ममरणे न भवतः, संसारान्नित्तिर्भवतीति । इति पष्ठप्रश्नस्योत्तरम् ॥१८॥ गङ्गाधरः--तत्रानिवेशः पप्रच्छ, किं लिङ्गं पुरुषस्य चेति । ननु यदुक्तं व्यक्तमैन्द्रियकञ्चैव गृह्यते तद् यदिन्द्रियैः। अतोऽन्यत् पुनरव्यक्तं लिङ्गग्राह्यमतीन्द्रियमिति, पुरुपस्य तल्लिङ्गं किमिति ? तथा पृष्टः पुनर्वसुरुवाच-प्राणापानावित्यादि। प्राण उच्छासोऽपानो निश्वास इति । निमेषाद्या निमेषोन्मेषाकृतिस्वरवर्णविशेषात्मज्ञानानि तासु तासु योनिपुत्पत्तिश्च। जीवनमायुः, यावज्जीवति, मनसो गतिश्चिन्त्यादौ विपये। इन्द्रियान्तरसञ्चारो मनसः, यदर्थग्रहणायैकस्मिन्निन्द्रिये मनः सञ्चरति तदिन्द्रियसञ्चारतोऽन्यस्मिनिन्द्रिये मनसो यः सञ्चारः स इन्द्रियान्तरसञ्चारः। प्रेरणं तदिन्द्रिये मनसो यद यच्च । तत्रैवेन्द्रिये धारणं स्थिरतयावस्थानकरणम् । स्वप्ने च मनसो देशान्तरगतिः। पञ्चखग्रहणं मरणम्। दक्षिणेनाक्ष्णा दृष्टस्य सव्येनाक्ष्णावगमस्तथा सव्येन दृष्टस्यार्थस्य दक्षिणेनाक्ष्णावगमः। इच्छा च द्वेपश्च सुखञ्च दुःखञ्च प्रयत्नश्च चेतना च धृतिबुद्धिः स्मृतिरहङ्कारश्चेत्येतानि प्रत्यगात्मनि वर्तमानानि परमात्मनः प्रत्यगात्मनः परमस्यात्मनोऽव्यक्तस्य लिङ्गानि न तु परमपुरुषस्य परमात्मनो लिङ्गानि तस्याप्रमेयस्य लिङ्गाभावात्। उक्तं हि श्वेताश्वतरोपनिषदि। निष्क्रियं निर्गुणं शान्तं निरवदंत्र निरञ्जनम् । मिथुने, अहङ्कारपरा इति अहङ्कारान्ममेदमित्यादि मिथ्याज्ञानपराः। उदयप्रलयो जन्ममरण, किंवा लयसगौ । अतोऽन्यथेति रागढ पविमुक्ता निरहङ्काराश्च ये, तेषां नोदयप्रलयौ भवतः ॥ १८ ॥ चक्रपाणिः- "किं लिङ्गं पुरुषस्य च" इत्यस्योत्तरम्-प्राणापानावित्यादि। प्राणापानावुच्छासनिश्वासौ। निमेषाद्या इति 'आद्य शब्दग्रहणेन उन्मेषाद्या प्रेक्षणविशेषा गृह्यन्ते। मनसो For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy