________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम् ।
१६१७ अव्यक्ताद व्यक्ततां याति व्यक्तादव्यक्ततां पुनः । रजस्तमोभ्यामाविष्टश्चक्रवत् परिवर्त्तते ॥ येषां द्वन्द्व परासक्तिरहङ्कारपराश्च ये।
उदयप्रलयौ तेषां न तेषां ये त्वतोऽन्यथा ॥ १८॥ स्वपिति निर्वृतः। तमोऽयन्तु समाश्रित्य चिरं तिष्ठति सेन्द्रियः। न च स्वं कुरुते कर्म तदोत्क्रामति मूर्त्तितः। यदाणुमात्रिको भूखा वीजं स्थास्नु चरिष्णु च । समाविशति संसृष्टस्तदा मूर्ति विमुञ्चति। एवं स जाग्रत्स्वानाभ्यामिदं सर्व चराचरम्। संजीवयति चाजस्र प्रमापयति चाव्यय इति।
तहि पुनने कदापि किं जायते इत्यत आह-अव्यक्तादित्यादि । उक्तरूपेण अव्यक्ताद व्यक्ततां याति, पुनः कल्पान्ते प्रलये व्यक्तादव्यक्ततां याति। एवं. प्रकारेण रजस्तमोभ्यामाविष्ट एप पुरुषश्चक्रवत् परिवत्तते भ्राम्यति यावत् त्रिगुणसाम्यलक्षणप्राकृतप्रलयम्। उक्तश्च भगवदगीतायाम्। सहस्रयुगपय्यन्तमहर्यद ब्रह्मणो विदुः। रात्रिं युगसहस्रान्तां तेऽहारात्रविद। जनाः। अव्यक्ताद व्यक्तयः सर्वाः प्रभवन्त्यहरागमे। रायागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके। भूतग्रामः स एवायं भूखा भूखा प्रलीयते। रात्रयागमेऽवशः पाथे प्रभवत्यहरागमे। परस्तस्मात् तु भावोऽन्योऽव्यक्तोऽव्यक्तात् सनातनः । यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति। अव्यक्तोऽक्षर इत्याहुस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद् धाम परमं मम। पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया। यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् । इति । नन्वेवं चक्रवत् परिवत्तेनं केपां भवति ततो निवृत्तिर्वा केषां कुतः स्यादित्यत आह-येषां द्वन्द्र इत्यादि। येषां देवनरादीनां द्वन्दे खलु सविपर्यये द्वये द्वये सुखदुःखे इच्छाद्वेषे इत्यादौ परा परमा आसक्तिरासङ्गः, तस्मात् महाप्रलय एवं प्रकृतौ लयः, तदादिसर्ग एवं प्रकृतेर्महदादिसृष्टिरिति । एतमेव प्रपञ्च' लयञ्च प्रकृतेराह-अव्यक्तादित्यादि । अव्यक्तादिति प्रकृतेः, व्यक्ततामिति महदादिमहाभूतपर्यन्त. प्रपञ्चरूपतां याति। व्यक्तात् महदादिमहाभूतपर्यन्तप्रपज्ञाद्यवस्थातः पुनरव्यक्तरूपतां याति ;महाप्रलये हि महाभूतानि तन्मात्रेषु लयं यान्ति ;-तन्मात्राणि तथेन्द्रियाणि चाहङ्कारे लयं यान्ति, अहङ्कारो बुद्धौ, बुद्धिश्व प्रकृताविति लयक्रमः। अयञ्च लयक्रमो मोक्षेऽपि भवति । परन्तु तं पुरुपं प्रति पुनः सर्ग नारभते प्रकृतिः। अयं संसारः कुतो भवतीत्याह-रज इत्यादि। आविष्टो युक्तः। चक्रवत् परिवर्तत इति पुनःपुनर्लयसर्गाभ्यां युज्यते। द्वन्द्व इति रजस्तमोरूपे
For Private and Personal Use Only