________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८१६
चरक-संहिता। कतिधापुरुषीयं शारीरम् यो यस्मानिःसृतश्चैषां स तस्मिन्नेव लीयते। यथात्मानं सृजत्यात्मा तथा वः कथितो मया। विपाकात् त्रिप्रकाराणां कर्मणामीश्वरोऽपि सन्। सत्त्वं रजस्तमश्चैव गुणास्तस्यैव कीर्तिताः। रजस्तमोभ्यामाविष्टश्चक्रवद् भ्राम्यते हि सः। इति। लोकवदन्नमयोऽयं पुरुष एतस्यात्मान्नं भूमितत्त्वबहुलं पञ्चभूतात्मकम् । तस्यान्नस्यात्मन आत्मा प्राणमयः पुरुषस्तस्य प्राण एव शिरो व्यानो दक्षिणः पक्षः समान उत्तरः पक्ष आकाश आत्मा पृथिवी पुच्छं प्रतिष्ठा । तस्यात्मन आकाशस्यान्तरात्मा मनोमयस्तस्य यजुरेव शिर ऋग् दक्षिणः पक्षः सामोत्तरः पक्ष आदेश आत्माऽथवाङ्गिरसः पुच्छं प्रतिष्ठा । तस्यात्मन आदेशस्य अन्तरात्मा विज्ञानमयस्तस्य श्रद्धव शिरः सत्यं दक्षिणः पक्ष ऋतमुत्तरः पक्षो योग आत्मा महः पुच्छं प्रतिष्ठा। तस्यात्मनो योगस्यान्तरात्मानन्दमयः तस्य प्रियमेव शिरो मोदो दक्षिणः पक्षः प्रमोद उत्तरः पक्ष आनन्द आत्मा ब्रह्म पुच्छं प्रतिष्ठा। एष चेतनाधातुरव्यक्तमात्मेति ख्यापितम्। तस्यात्मन आनन्दस्यान्तरात्मा हिरमयः पुरुषः परमात्मा शिवस्तस्य तेजः शिरः आपो दक्षिणः पक्षोऽनमुत्तरः पक्षो गायत्रीशक्तिरात्मा शक्तिरसद् ब्रह्म पुच्छं प्रतिष्ठेत्युन्नेयम्। भवति चात्र कठोपनिषदि श्लोकः। 'हिरण्मये परे कोषे विरजं ब्रह्म निष्कलम् । तच्छदं ज्योतिषां ज्योतिस्तद यदात्मविदो विदुरिति।
एप पड़ धातुः पुरुषः खलु यावत् प्रलयं वत्तते न नश्यति पुनःपुनर्जायते ततो नारायणस्यास्यादित्यस्य देहादुत्क्रान्तौ प्राकृतप्रलये प्रकृती स्थिते काले क्षेत्रने प्रधानस्य गुणसाम्ये 'द्विपरार्द्धकाले पुनर्भाववियुज्यते। तदुक्तं मनुना। एवं सर्च स सृष्ट्वदं माश्चाचिन्त्यपराक्रमः। आत्मन्यन्तर्दधे भूयः कालं कालेन पीड़यन्। यदा स देवो जागर्ति तदेदं चेष्टते जगत्। यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति । तस्मिन् स्वपति तु स्वस्थे कर्मात्मानः शरीरिणः। स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति । युगपत् तु प्रलीयन्ते यदा तस्मिन् महात्मनि। तदायं सर्वभूतात्मा सुखं लयमाह-पुरुप इत्यादि। इप्टै वैरिति पुरुषस्य भोगार्थमिष्टर्बुयादिभिः। अन्ये तु एवंभूतसर्गमत्रजन्मनि, बुद्धयादिवियोगञ्च मरणे ब्रवते। तन्न, जन्ममरणयोर्बु यादीनां विद्यमानत्वात्। उक्तं हि-"अतीन्द्रियैस्तैरतिसूक्ष्मरूपैरात्मा कदाचिन्न विमुक्तपूर्वः। नैवेन्द्रिय व मनोमतिभ्यां न चाप्यहङ्कारविकारदोषः" इति। तथान्यत्राप्युक्तम्- 'पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् । संसरति निरुपभोग भोगैरधिवासितं लिङ्गम्” इति ।
For Private and Personal Use Only