SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः शारोरस्थानम् । १८१५ ततः सम्पूर्णसर्वाङ्गो जातोऽभ्युदित उच्यते । पुरुषः प्रलये चेष्टः पुनर्भावैर्वियुज्यते ॥ दिग् दिगन्तरमारभते। ततस्तया विपत्रिगुणलक्षणया युदद्या खलु मनसा तदव्यक्तमहं सर्वकर्त्तति विपश्यैयरूपेण स्वं मन्यते। इति मलिनविषमत्रिगुणलक्षणोऽहमिति विषय्येयाभिमन्ता दिक्कालविशिष्टोऽहङ्कारो महता सहितादव्यक्ताजायते इत्यव्यक्तस्य द्वितीयं कार्यम् । महत एकादशांशस्यैकांशरूपः क्षेत्रज्ञानुप्रविष्ट एव । स च त्रिविधः । विषममलिनसत्त्ववहुलः सात्त्विको वैकारिको नाम। तादृशरजोबहुलस्तैजसो नाम राजसः । तादृशतमोबहुलस्तामसो भूतादिर्नामेति। तत्रादौ भूतादिरहङ्कारः तत्परं यथाक्रम क्रमेण सत्त्योद्रकात् सत्त्वबहुलं शब्दमात्रगुणमाकाशमुपादत्ते। रजोबहुलं स्पर्शमात्रगुणं वायुम् । सत्त्वरजोबहुलं रूपमात्रगुणं तेजः। सत्त्वतमोबहुला रसमात्रगुणा आपः। तमोबहुलां गन्धमात्रगुणाञ्च पृथिवीमिति। ततो वैकारिको नामाहङ्कारस्तैजससहायाद युगपदेव पञ्च बुद्धीन्द्रियाणि पञ्च कम्में न्द्रियाणि बुद्धिकम्मोभयात्मकं मनश्चोपादत्ते। महदादेवतदन्तानामधिदेवताश्च उपादत्ते। तासां देवतानां ब्रह्मा महान्तं प्राविशदहङ्कारमीश्वरः प्राविशत प्राविशञ्च मनश्चन्द्रमाः श्रोत्रं दिशं स्पर्शनं वायुश्चक्षुः सूर्य आपो रसनं घ्राणं क्षितिः पायु मित्रः प्रजापतिरुपस्थं हस्तमिन्द्रः पादं विष्णुरनिर्वाचमिति । इत्येवं प्राज्ञ आत्माऽहङ्कारेण मनो दशेन्द्रियाणि पञ्च महाभूतानि सृष्टाऽहकारादिसप्तदशकं लिङ्गं शरीरमादायात्मानमारभ्य पुनः पञ्चानां महाभूतानामाकाशं कियन्तं दिककालाभ्यां संयोज्याकाशं सृष्ट्वा तं वायो प्रवेश्य प्रात्मकं वायु स्रष्टा तं तेजसि प्रवेश्य यात्मकं तेजः सृष्ट्वा तदप्सु प्रवेश्य चतुरात्मिका अपः सृष्ट्रा ताः पृथिवीं प्रवेश्य पश्चात्मिकां पृथिवीं सृष्ट्वा तानि पञ्च भूतान्यनुप्रविश्य पड़धातुः सर्वसम्पूर्णाङ्गः सन् जातो लोकोऽभ्युदित उच्यते। याशवल्क्यसंहितायाश्च। बुद्धरुत्पत्तिरव्यक्तात् ततोऽहङ्कारसम्भवः । तन्मात्राणि ह्यहङ्कारादेकोत्तरगुणानि च। शब्दः स्पर्शश्च रूपश्च रसो गन्धश्च तद्गुणाः । सहायात् पञ्च तन्मात्राणि। यदुक्तम्-“सात्विक एकादशकः प्रवर्त्तते वैकृतादहकारात् । भूतादेस्तन्मात्रः स तामसस्तैजसाभयम्" इति। तत इति आहङ्कारिककार्यानन्तरं तन्मात्रेभ्यः उत्पन्नस्थूलभूतसम्बन्धात् । सम्पूर्णसङ्गिो जात इति आदिसो जातः । एवमादिसर्गे प्रकृतेर्महदादिसर्ग दर्शयित्वा महाप्रलये प्रकृतावश्यकरूपायां बुयादीनां For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy