________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८१४
चरक-संहिता। कतिधापुरुपीयं शारीरम् जायते बुद्धिव्यक्ताद बुद्धग्राहमिति मन्यते ।
परं खादीन्यहङ्कार उपादत्ते यथाक्रमम् ॥ एतत् क्षेत्रं समासेन सविकारमुदाहृतमिति। तस्मादिहाव्यक्तं त्रिगुणसाम्यं न तु पुरुषाधिष्ठितत्रिगुणसाम्यसमुदायरूपमिति। तत् त्रिगुणसाम्यमत्राव्यक्तं क्षेत्रं गीतायां कृष्णाभिप्रेतमित्यविरोधः । अत आह-अव्यक्तमस्येत्यादि । अस्य क्षेत्रस्य त्रिगुणसाम्यरूपाव्यक्तमहदादातदन्तस्य क्षेत्रस्य ज्ञातारमव्यक्तस्थं पुरुष क्षेत्रामृषयो विदुस्तत्क्षेत्राधिष्ठितखात् तत्क्षेत्रवाधिष्ठितं कालानुप्रविष्टं प्रधानमभिव्यक्तसमत्रिगुणमित्येतत्समुदायोऽप्यव्यक्तमपि क्षेत्रामृषयो विदुः इत्यत उक्तमव्यक्तमात्मा क्षेत्रज्ञ इति। बुद्धीन्द्रियाणि सानि मनः कम्मेन्द्रियाणि च। अहङ्कारश्च बुद्धिश्च पृथिव्यादीनि चैव हि । अव्यक्तमात्मा क्षेत्रशः क्षेत्रस्यास्य निगद्यते। इश्वरः सव्वंभूतस्थः सन्नसन् सदसच्च यः । इत्युक्तं याज्ञवल्क्यसंहितायामिति ॥१७॥
गङ्गाधरः-ननु चतु विंशतिकस्य पुरुषस्य धातुषु याऽष्टधातु की प्रकृतिरुक्ता तत्राष्टौ याः प्रकृतयस्ताः किं प्रसिद्धाः सन्तीत्यत आह-जायते इत्यादि। यदिदमव्यक्तं कालानुप्रविष्टक्षेत्राधिष्ठितप्रधानत्रिगुणसाम्यलक्षणं तस्मादव्यक्तात् तत्रिगुणवैषम्यलक्षणस्तस्याव्यक्तस्यैकादशांशस्यैकांशो महान नाम प्रथमं बुद्धिर्जायते। मनो मतिमहानात्मेत्यादिपर्याया विद्याबुद्धिः जायते। सा च त्रिविधा सात्त्विकी राजसी तामसी च। तत्र सात्त्विकी विद्या प्रज्ञा चित्तमित्युच्यतेऽव्यक्तस्य न तु प्राज्ञतैजसवैश्वानराणां, तया सात्त्विक्या विद्याबुद्धा दिककालाभ्याश्च विशिष्टं तदनुपविष्टं यावदव्यक्तं तावान् समुदायः प्राज्ञो नामात्मा बभूवेति आत्मात्मान्तरमारभते कालः कालान्तरमारभते आकाशादयः शब्दादिरूपाः, गुणगुणिनः परमार्थतो भेदो नास्त्येवास्मिन् दर्शने। एनमेव प्रकृतिविकारसमूह क्षेत्रक्षत्रज्ञभेदेन विभजते-इतीत्यादि। अध्यक्तवर्जितमिति प्रकृत्युदासीनवर्जितम् , प्रकृतेश्चोदासीनपुरुषचैतन्येन चैतन्यमस्त्येव ॥ १७ ॥
चक्रपाणिः-सम्पति महाप्रलयानन्तरं यथा आदिसर्ग बुद्ध पावरपादो भवति, तदाह-जायत इत्यादि। बुद्धयाहमिति मन्यत इति बुद्धेर्जातेनाहङ्कारेणाहमिति मन्यत इत्यर्थः । खादीनीति खादीनि सूक्ष्माणि तन्मात्ररूपाणि तथैकादशेन्द्रियाणि। वचनं हि.--"प्रकृतेर्महान महतोऽहङ्कारस्तस्माद्गणश्च पोडशकः" इति। यथाक्रममिति तस्मादहङ्कारादुत्पद्यते क्रमेण, तत्र वैकृतात् सात्त्विकादहकारात् तैजससहायादेकादर्शन्द्रियाणि भवन्ति, भूतादेस्त्वहङ्कारात् तामसात् तैजस
For Private and Personal Use Only