________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
शारीरस्थानम् ।
१८१३ बुद्धीन्द्रियाणि पञ्चैव पञ्च कम्मेंन्द्रियाणि च। समनस्काश्च पञ्चा विकारा इति संज्ञिताः॥ इति क्षेत्रं समुदिष्टं सर्वमव्यक्तवर्जितम् । अव्यक्तमस्य क्षेत्रस्य क्षेत्रज्ञमृषयो विदुः ॥ १७ ॥
बुद्धीन्द्रियाणीत्यादि। इति पोडश विकारा इति संशिता धातव इति चतुविंशतिको विश्वरूपो भूतात्मा लोके पुरुषे तु तैजसाख्य आत्मा स्वमस्थानः मूक्ष्मशरीरी। एतैश्चतुविंशत्या निष्पन्नश्चतुध्विंशतिको राशिपुरुषो वैश्वानर आत्मा जागरितस्थानः। तत्रात्मकृतसत्त्वरजस्तमांसि स्वस्थमाहकारिकं मनोऽशेन प्रवेश्य तैः संयुक्तं सत्त्वसंज्ञकं मनः सृजति आहङ्कारिकाणि पञ्च बुद्धीन्द्रियाण्येतान्यात्मकृतानि खादीन्येकैकाधिकानि पञ्चोपादायैतानि श्रोत्रादीनि मनन्ति। पञ्च कर्मेन्द्रियाणि च पञ्च कर्मेन्द्रियाणि सृजन्ति । पञ्च च तानि खादीनि स्वस्वशब्दादीनि परस्परेणानुग्रहाच्छब्दादीनि सृजन्तीति विकारसंशकाः पोडशधातवः। इति चतुर्विंशतिधातुकाधिष्ठानभूतं शरीरमिदं शुक्रशोणितमात्राहारजभूतेभ्यो जायते, तद् वक्ष्यते विस्तरेणेति । ननूक्तमव्यक्तमात्मा क्षेत्रज्ञ इति, तत्राव्यक्तं नाम यतस्तदुक्तं स आत्मा क्षेत्रको नाम कस्मादित्यत आह-इति क्षेत्रमित्यादि। इत्युक्तं सर्वमव्यक्तवज्जितं क्षेत्रं समुद्दिष्टम् । अव्यक्तमिहाव्यक्तपुरुषः सत्त्वादित्रिगुणसाम्योपाधिः पुरुषोऽव्यक्तं तत्रोपाधिरपि त्रिगुणसाम्यं क्षेत्रमुक्तं भगवदगीतायां त्रयोदशाध्याये । इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते। एतद् यो वेत्ति तं प्राहुः क्षेत्रमिति तद्विदः। क्षेत्रज्ञश्चापि मां विद्धि सर्चक्षेत्रेषु भारत। क्षेत्रक्षेत्रशयोनि यत् तज् ज्ञानं मतं मम। महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकश्च पञ्च चेन्द्रियगोचराः। इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । मूतखादीनि तन्मात्रशब्दाभिधेयानि। बुद्धिर्महच्छब्दाभिधेया। अध्यक्तं मूलप्रकृतिः । अहङ्कारो बुद्धिविकारः, स च त्रिविधो भूतादिस्तैजसो वैकारिकश्च । भूतानां स्थावरजङ्गमानां प्रकृतिर्भूतप्रकृतिः। तत्र चाव्यक्तं प्रकृतिरेव परम्। बुद्धपादयस्तु स्वकारणविकृतिरूपा अपि स्वकार्यापेक्षया प्रकृतिरूपा इह प्रकृतित्वेनोक्ताः। यदुक्तम्- "मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त" इति । विकारानाह-विकारा इत्यादि। 'एव'शब्दो भिन्नक्रमावधारणे, तेन, विकारा एव पोडश परं न प्रकृतयः ; बुद्धेरिन्द्रियाणि बुद्धीन्द्रियाणि। पञ्चार्था इति स्थूलाः
For Private and Personal Use Only